पृष्ठम्:शब्दापशब्दविवेकः.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ समासेषु विवेचनम्।

तत्र नित्यसमासाधिकारः प्रथमः ।

१–सुष्यजातौ णिनिस्ताच्छील्ये इति केवला हुँधातोर्णिनिर्न संभवति। तेन वाचक इति वक्तव्यम् । मद्यमकरन्दक्षिकाचीति वा । उपपद मतिङ् इति नित्यसमासः। अस्त्रपबिप्रहोऽविग्रहो वा नित्यसमासः । २–न स्वीकृतवान् इत्येव न्याय्यम् । ऊर्यादिच्विडाचश्चोति गतिसंज्ञायं कुगतिप्रादय इति नित्यः समासः । ३-कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् इ त कर्मण्युपपदे धातोर्नेषु सकलिङ्ग भावे ल्युट् प्रत्ययो भवत । ल्युट् च (३।३।११५) इत्यनेनैव सिद्ध प्रत्यये निर्यसमसार्थ’ वचनम् । तेन पयः पान मत्येव साधु । ४-उत्तरपदे त्वमी निभसकाशनीकाशप्रती- काशोपमादय इत्यमरवचनान्निभादय उपमावचना नियं समस्यन्ते । उत्तर पदशब्दो हि समसचर्मावयवे रूढः। ५-द्वितीयन्ते धर्माधिकारन्शब्द उपपदे मन्यतेर, आममाने खश्च ति खश्प्रत्यये नलोपः प्रतपदिकान्तस्येति नलोपे तस्यासिद्धत्वाद् अरुर्द्धिषदजन्तस्य मुम् इति मन । तेन धर्मा- धिकारिमन्या इत्येव शब्दः । ६–ऽप्युपपेंदे णिनेर्विधिरिति केवळा विदेस्तदप्रसङ्गाद्वदिन इत्यसाधु। आवश्यके णिनेरष्यप्रसङ्गः । अर्था- साङ्गत्यात् । ७–अवश्यम्भावीति साधु । अवश्यमिति मकारान्त- मव्ययम् । ८–कर्मणि च येन संस्पर्शाद् इत्यनेन ल्यु हे तु नित्य उपपद् समासः स्यात् । तस्मात् शरीरसुखस्यववक्षायां रोगाद्यभिभूतो यद्- ऽशक्नुवन्नेव साधु पिबति तद्ऽयं प्रयोगः साधुर्द्रष्टव्यः। ९‘कल्प्यो हि वाक्यशेषो वाक्यं वक्तयैधीनं हि इति चाक्यकारप्रयोगादस्मास्वधीन मित्यसमासेऽपि साधु । अन्यथाऽषडक्षाशितंग्वलं कर्मालंपुरुषाध्युत्तर पदारख इत्युत्तरपद रखेऽस्मद्धीनमित्येव सञ्च स्यात् । केचिद् इनं स्वार मिनमधिगतोऽधीन इत्येवं व्युत्पादयन्ति । १०–इवेन समासः विभक्तयलोपश्चेति छन्दसि विधिः । तत्रापि न नित्यःकिन्तर्हि क्वा चित्कः । तेन प्रकृते व्यस्तप्रयोगः सङ्गच्छते ।