पृष्ठम्:शब्दापशब्दविवेकः.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २३९
तडितपरिशेषाधिकारः

वचनो नास्ति न वा बहुशब्दस्ति । २५–महाविभाषया च्वेरभाव इत्य् दोषः । २६-ब्रह्मण इदं ब्राह्मम् । ब्राह्मोऽजाताविति योगो विभज्यते । ब्राह्म इत्यनपत्येणि टिलोपार्थं निपात्यते । तत जातौ। अपत्ये जातावणिं टिलोपो न भवति । ब्रह्मणोऽपत्यं ब्राह्मणः । २७-प्रागिति दिक्छब्दः । दिक्छब्दयोगे विहिता पञ्चम्यपादानपञ्चमी न भवतीत्यपादाने चाहीयरुः होरित्यनेन तसेरादेशस्यायोगास्पृङ् निशाया इत्येव साधु । २८–याज्ञ वल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्कानि । कण्वादिभ्यो गोत्र इत्यण । कण्वादिर्गर्गाद्यन्तर्गणः । याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वाद् इतैि पुराणप्रोक्तेषु ब्राह्मणकल्पेष्विति णिनिनी । तद्विषयताऽपि न। प्रतिपदं ब्राह्मणेषु यः प्रत्ययस्तस्य तद्विषयता विधीयते णिनेः। २९-एकाच्च प्राचामित्येक शब्दद्वयोर्निर्धारणे डतरच, , बहूनां निर्धारणे डतमच विहितौ । तेनात्रैक तमेनेति साधु । ३०–प्रशस्तश्चौरः चौररूपः । प्रशंसायां रूपप्। प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा न तु स्तुतिः । गुप्तवस्त्वपहरणेन चौर्य परेि पूर्यते । ३१--सुप्रातसुश्वेत्यादयः (५/४/१२० ) बहुत्रीहिसमासेऽच्प्रत्य यान्ता निपात्यन्ते । शोभनं प्रातरस्येति सुप्रातः । तेन प्रकृते तत्पुरुषे प्रयोग श्चिन्त्यः। ३२–तस्य पूरणे डटि नवम्यमित्येव साधु । ३३–मनसा मौखा हास्ता इत्यत्र शैषिकोऽण. । पाद शब्दात्तु वृद्धाच्छः प्रसक्तः । तेन पादीया इति स्यात् । तस्य च प्रयोगो नास्तीति पादभ्यां कूना इति व्यासेन वक्तव्यम् । पादकृता इति समासेन वा। ३४-परम्परीणा इत्येव साधु । परोबरपरम्परपुत्त्रपौत्रमनुभवतीति खप्रत्ययः। परम्परकमिति परस्पराशब्दा दव्युत्पन्नाप्रबन्धवचनादध्यात्मादित्वाट्ट बि सिध्यति । प्रयोगोऽस्य नास्तीति साधुत्वं दुरवधारम्। ३५–प्रशंसायां रूपप्। साधीयः पश्याम इत्यर्थः। ३६-माध्यमकालिका इत्येव साधु । मध्यान्मः। कालाट्टम् । आदि वृद्धिः । ३७-कालेन निधृत्तम् इत्यर्थं तेन निवृत्तम् (५।१।७६) इति ठक, नार्हति भवितुम् । न ह्यसौ स्वरूपविधिर्भवति । कालात् इत्यधिकारः । तेन कालकृतमित्येवं वच्यम् । न च कालाढविति शैषिकेण ठया शक्यं व्युत्पादयितुमिति वाच्यम् । स्वरूपस्य पर्यायाणं च न प्रहणमिति पदं