पृष्ठम्:शब्दापशब्दविवेकः.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २३७
तदितपरिशेषाधिकारः

तद्धितपरिशेषाधिकारः ।

१-सार्वजनिति साधु। “सर्वेजनेषु भवेति विग्रहः ।. अध्यात्मा दित्वाद्वयः। सर्वजनाङ्खश्चेति आत्मन्विश्वजनभोगोत्तरपदात्ख इत्यत्र वार्तिकं पठ्यते । तेन सर्वेजनेभ्यो हिता सार्वजनिक सर्वजनीनेति वा स्यात् । प्रतिजनादिभ्यः खलु इति खबि रूपसिद्धिः सुलभा । तत्र साधु रित्यर्थस्तु न युज्यते । २–तेन तुल्यं क्रिया चेद्वतिरित्यस्य प्रवृत्यप्रसङ्गा. द्रुतेरप्राप्तौ जिह्वेति वक्तव्यम्। ३-न स्वीकुर्वन्तीति वक्तव्यम् । कूबस्तियोगे सम्पद्यकर्तरि च्विः। योग इहार्थकृत एव , शब्दकृतोप्य भिप्रेयते । तेन, नकारेण व्यवधने नैष विधिः ४–एकत्र भूता इत्येव । समवेता इति वा वक्तव्यम् । सम्पद्यकर्तरीत्युक्तम् । कारकान्तरसम्पत्तौ मा भूत् । तेन चिबरत्र दुर्लभः । अनेकत्र एकत्र भवन्तीत्यत्राधेयविशेष सम्बन्धेनाभूततद्भावः सत्त्वाधिकरणस्य न कर्तुः। ५--अशीतिवर्षाणि वेयः प्रमाणमस्येत्यशीतिवषः। प्रमाणे लः । द्विगोर्नित्यम् इति मात्रचो लुक् इत्येवं केचिद् व्युत्पादयन्ति । तदपरे न सहन्ते । अत्र प्रमाणशब्देन प्रमाणत्वेन ये प्रसिद्धा दिष्टयादयस्ते गृह्यन्ते। हे दिटी प्रमणमस्येति द्वि दिष्टि । तेन अशीतिं वर्षाणि भूत इति विगृह्य तमधीष्टोथतो भूतो भावीति भूतेथे कालाटुवि चित्तवति नित्यमिति तस्य लुकि अशीतिवर्ष इत्येव साधु। ६–अद्यश्वीनवटुब् (५२१३)। अत्रावष्टब्धे विजने आसन्ने प्रसवेऽद्यश्वीन इति निपात्यते । अद्यश्वीना गौः। अद्यश्वीना वडवा । अद्य वा श्वो वा विजायत इत्यर्थः। केचिदत्र पूर्वसूत्राद् विज्ञायत इति नानुवर्तयन्ति, अवष्टब्धमत्रे निपातनमित्याहुः । अद्यश्वीनं मरणंम् । अद्य बीनो वियोग इति । प्रकृते आसन्नपातमित्यर्थो विवक्षितः । तमद्यश्वीन शब्दो नार्पयतीत्यस्थाने तत्प्रयोगः। ७–वतिः क्रियातौल्ये बिहितः। तेनेह पित्रासंदं , पित्रा तुल्यः स्थूल इति वा वक्तव्यम् । ८-बिल्वा दिभ्योऽणि वैणवीतेि भवति । मयविकल्पे वेणुमयत्यपि साधु। छन्दसि तु नोवबद्धंबिल्त् इति मर्टो निषेधे वैणवत्येव । शबर्ष इत्येव .