पृष्ठम्:शब्दापशब्दविवेकः.djvu/३०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( २८ )

यावत् । सूत्रेष्वपि -अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ (महाभाष्ये २।२।२६)। भारतेपि-चिरस्य दृष्ट्वा दाशार्ह राजानः सर्व एव ते । अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ॥ (उद्योग० ९४।५१) । मद्बाणानां तु वेगेन हतानां तु रणाजिरे । अद्य तृप्य न्तु मांसादाः (रा० ६।५७।१८-१९)। सदोद्गारसुगन्धीनां फलानामाशिता इति च भट्टौ (७।३८ ) । आशितास्तृप्ता इत्यर्थः। अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारेति सन्दृभञ्छि्रीहर्षोप्यत्रानुकूलः । माघस्तु अथवा श्रेयसि केन तृप्यत इति करणमवज्ञायाधिकरणत्वमाद्रियते । तदस्य स्वातन्त्र्यमिति किमु तत्र वक्तव्यम् । पूर्णशब्दयोगे पूरयतेश्चापि प्रयोगे करणस्य शेषविचक्षा दृश्यते प्रायेण । तद्यथा—सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव (रा० १।६।२१)। ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे (रा० २।६१।७३)। यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्यावरणं त्वासां भिनत्तीति योगभाष्ये (४/३ ) । स एष ह्र्दः कामानां पूर्णो यन्मनः ( जै० उ० ब्रा० १।५८।३)। तस्येयं पृथ्वी सर्वा वित्तस्य पूर्णा स्यात् { तै० उ० २।८ )। अपामञ्जली पूरयित्वा ( आश्व० गृह्ये १।२०) । दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत् पदा ( मनौ ११।१८३ ) । नवं शरावं सलिलस्य पूर्णमिति कौटलीये ऽर्थशास्त्रे ( १०/१३१ ) । ओदनस्य पूर्णा श्छात्रा विकुर्वत इति सूत्रे (१।२।३५ )। काशिकायाम् । स्निग्धद्रवपेश- लानामन्नविशेषणां भिक्षाभाजनं परिपूर्णं कृत्वेति तन्त्राख्यायिकायाम् ( मित्रसम्० कथा० १) । तं च खादिराणामश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत् इति च चरके (सूत्र० १४।४६ )।

 तैस्तैरुपपदैर्योगे तास्ता विभक्तीरनुशास्ति शास्त्रकारः । अन्तरेणा- प्युपपदं सा सा दृश्यते । कस्य चित्त्वथ कालस्य, ततः कतिपयाहस्य, ततः कतिपयाहस्य तच्छुत्वेत्यत्र भारते ( वन० २५९।८,१६०।१५१, उद्योग० १८९।८ )। चिरस्य वाच्यं न गतः प्रजापतिः, भगवन्निमामा ज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरा-