पृष्ठम्:शब्दापशब्दविवेकः.djvu/३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ओं नमः परमात्मने ।

नमो भगवते पाणिनये । नमः पूर्वेभ्यः पथिकृद्भयः । नमः शिष्टेभ्यः ।

'भूमिका '

इह वयं वाग्व्यवहारमधिकृत्य किञ्चित्प्रस्तुमः । न खलु यथा तथा प्रवर्तमानो वाचो व्यवहारो नो विमर्शस्य विषयः । सामान्येन हि तेन विमृष्टेन नार्थः। न चापि यस्याः कस्याश्चिद् वाच एव स विवक्षितः । किन्तर्हि पारम्पर्यागतः शिष्टाभ्यनुज्ञातः संस्कृतव्यपदेशभाजो दैव्या वाचो विशिष्टो व्यवहार एवाभिप्रेतः । यानि यथा वा पदानि शिष्टैरुच्चार्यन्ते तानि तथैव साधूनि भवन्ति । तथा साधुत्वमभ्युपेत्य चेतरैरप्यनुवृत्यानि भवन्तीत्यत्र पृषोदरादीनि यथोपदिष्टम् इति सूत्रकारवचनमेव मानम् । यदि शिष्टाः शब्देषु प्रमाणं किमष्टाध्याय्या क्रियते । शिष्टपरिज्ञानार्थाष्टाध्यायीति भाष्यमपि सूत्राशयं स्फारं स्फारयच्छिष्टानां वाचि प्रामाण्यमङ्गीकुरुते । के पुनः शिष्टा इत्याकाङ्क्षायामित्याहुर्भगवन्तो भाष्यकाराः-आर्यावर्ते निवासे ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्यमाणकारणाः किंचिदन्त-' ; रेण कस्याश्चिद्विद्यायाः पारङ्गतास्तत्र भवन्तः शिष्टाः। वयंतु पश्यामः शिष्टाः खलु न केवलं पृषोदरप्रकारेष्वविहितलोपागमविकारेषु शब्देष्वेव प्रमाण मपि त्वन्यत्रापि वाड्मयेऽविशेषेणेत्यत्र निरुक्ता यदि शिष्टाः शब्देष्वित्यादिर्भाष्य कृदुक्तिरेव ज्ञापिका। शास्त्रे तावत् तिङ्कृत्तद्धितसमासैरभिधान- मर्थानाम्। तद्यथा श्राद्धे शरदः(४/३/१२) इति शास्त्रंशरच्छब्दाच्छा- द्धेये ठञं विधत्ते । तेन शारदिकशब्दश्च निष्पद्यते । श्राद्धशब्देन यमुच्यते श्रद्धावत्कर्म श्रद्धावान् पुरुषश्च । इह तु श्रद्धावान् पुरुषो न


१ स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्याः।