पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २३५
विकाधिकारः

फारमीरमित्येव साधु । २८–दिक्पूर्वपदाट्ठञ्न , चेति यताऽनुवृत्तेन भवितव्यं ठञ् वा। तेन पूर्वाद्ध” पौर्वार्चिकमिति वा भवति । एवं चोत्तराद्धमौत्तराधैिकमिति वा। २e-दिगादिभ्यो यत् इति यति बग्र्यां इत्येव साधु। वर्गान्ताच्छस्य विधानान् । ३०--कुग्जनस्य परस्य चेति गहादिषु पठ्यते। तेन परकीयमित्येव साधु । ३१-आवश्यक शब्दाद् अर्श आदिभ्योच् इत्यचि आबश्यकमित्येव साधु। वृद्धतेपि च्छस्य प्रसङ्गो न । शैषिकार्थस्यासत्त्वात् । ३२–कालाटु, इति ठवि दाशाब्दिके इति वक्तव्यम् । दशसु अव्देषु भवमित्यर्थः। ३३-अचि ताददेशकालाट्ठक्कू (४|३|६६ ) इति ठकि आपूपिकाः पायसिका इति च साधु । अपूपा भक्तिरस्य, पायसं भक्तिरस्येति विग्रहः । ३४-गोरिदं गव्यम् । तस्येदमित्यण्प्रसङ्ग सर्वत्र गोरजादिप्रत्ययप्रसङ्ग यत् इति यत् । तेन गव्यमिति साधु। अजाया इदमजम् । तस्येदमित्यण्। ३५--माल्य- कालिक इत्येव साधु। कालाट्ठञ्,। ३६-कुत्सितं शरीरं शरीरकम्। तत्सम्बन्धी शरीरको घरमा । तमधिकृत्य कृतानि सूत्राणि शारीरकी याणीति वाच्यानि स्युः। अधिकृत्य कृते प्रन्थे इति वृद्धाच्छप्रत्ययप्रसङ्गात्। शारीरकमिति त्वभेदोपचारात् । ३७–अद्यतन इत्येव साधु । खप्रत्यया प्रसक्तेः। ३८-गतं च तद्वर्षे चेति गतवर्षम् । तत्र भवम् गतवर्षिक मिति युज्यते । कालद्वार,। वर्षस्याभविष्यतीत्युत्तरपदवृद्धप्रसङ्गः। संख्याया उत्तरस्य वर्षशब्दस्याभावात् । ३३-पूर्वैः कृतभिनयौ चेति यप्रत्यये पू” इति च्छन्दसि साधु । पूर्वैः कृतः पू” इति च विग्रहः। भाषायां तु नायं शब्दः प्रयुज्यते । तेन पूर्वं इत्येव साधु । ४०--आख्यानाख्या यिकेतिहासपुराणेभ्यष्टवक्तव्य इति ठकि ऐतिहासिक इति सिध्यति । इतिहासमधीते वेद वेत्यर्थः । अत्रैवार्थेऽस्य प्रयोगो दृश्यते न त्वितिहासे प्रसिद्ध इत्यर्थे, इतिहासे भव इत्यर्थे वा । तेनाध्यारमादित्वं न कल्पनीयम् । ४१-मध्यान्म इति मध्यम इत्येव साधु। साम्प्रतिके न्याय्य एव मध्यात् अ साम्प्रतिके इत्यप्रत्यये मध्यो वैयाकरणः, मध्यं काष्ठमित्यादि भवति । ४२–परस्परं भवः पारस्परिक इत्यध्यात्मादित्ठञ्चि शक्यव्युत्पति