पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४ ]
शब्दापशब्दविवेके

आपदादिपूर्वपदात्कालान्तात् इति पठ्यते । तेन ठगि आपत्कालिकी, ब्जिठे च आपत्कालिकेति रूपद्वयं साधु । ११–प्रामाद्यखञ्याविति प्रामास्प्रत्ययविधिः, न तु प्रामान्तात् । प्रहणवता प्रातिपदिकेन तदन्तविधि नास्तीति । तेनैकग्रामीण इतिप्रयोगश्चिन्त्यः पाणिनीयानाम् । १२सन्धिवे लाद्य तुनक्षत्रेभ्योण् इत्यत्र संवत्सरात्फलपर्वणोरिति गणसूत्रम् । तेन सव त्सरं पैर्वेत्येव साधु। १३-—काळाडुब्बि औषसिकेनेति साधु। १४-राष्ट्रा वारपारार्धखाविति राष्ट्रिय इत्येव रूपम् । ततो भावे त । १५--वृद्धाच्छ इति कापुरुषात्प्रातिपदिकाच्छे कापुरुधीयेत्येव युक्तम् । १६-पर्वताच्चेति छप्रत्यये पर्वतीय इत्येव शोभने बचः । १७–पर्वतीयानामिमे भवन्तीति पर्वतीयशब्दाच्छैषिकेण पार्वतीयैरिति साधु। १८-अरण्यान्मनुष्ये (४२१२६ ) इत्यत्र पश्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्या त्रारण्यशब्दाद् वुञ्ग् न । तेनाणि आरण्या इत्येव साधु । १e--दिगा दिभ्यो यत् इत्यत्र दिगादिगणे वंशशब्दः पठितो न राजबंशः। तेन यतोऽ प्रसङ्गाद् वृद्धाच्छ राजबंशीय -- इति छे इत्येव साधु। २०धूमादिभ्य श्चेत्यत्र गणे समुद्रान्नावि मनुष्ये चेति पठितम् । तेन सामुद्रिका नौरिति बुध्वि रूपम् । अन्यत्र सामुद्रं जलं सामुद्रस्तरङ्ग इत्यण् भवति । नद्य।दिभ्यो ढक् इति ढकि स्त्रियां ङीपि नादेयीति साधु । २१-काश्यादिभ्यष्ट क़िसठावित्यत्र आपदादिपूर्वपदात्कालान्तादिति पठितम् । तेन बिठे स्त्रियां टापि तात्कालिकेति साधु। ठवि तु तात्कालिकीति भवति । २२-युप्राग पागुदक् प्रतीचो यत् इत्यत्र अव्ययत्तु कालवाचिनः परत्वात् ट्युट्युलौ भवत इति वृत्तावुक्तम् । तेन प्राक्तनमित्येव साधु। २३–अवृद्धादपि बहुवचनविषयत् (४|२११५ ) इत्यनेन बुद्धि कालिङ्ग इत्येव साधु। २४–रोपधेतोः प्राचामिति खुसि पाटलिपुत्रका इत्येव साधु । २५--कच्छादिभ्यश्च (४।२।१३३ ) इत्यत्र गणे कश्मीरशब्दः पठ्यते । मनुष्यतत्स्थयोर्दूल इत्यप्रिमं सूत्रं कच्छदिभ्य एव पुत्रं विधत्तेऽणs पादम् । तेन प्रकृते काश्मीरका इत्येव साधु। २६–अवृद्धादपि बहुवचन विषयात् इति बुलि आञ्जक इत्येव साधु। २७-कच्छदिभ्यश्चेत्यनेनाणि