पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २३३
शैषिकाधिकारः

न पृथु मृढं भृशं चैव कृशं च दृढमेव च ।
परिपूर्व घृढं चैव षडेतान् विधौ स्मरेत् ।।इति।।

रविकल्पस्तु च्छन्दोविषयः । विभाषजश्छन्दसीति । तेन ऋजीयान् इत्येव साधु । ; १०–केचित्स्वार्थिकाः प्रत्यया नित्यमिष्यन्ते । तमबादयः, } आक कन इतीष्टिः। तेन भाग्यवत्तरमिति युज्यते । केचिन्महाविभाषया: तरपोऽभावं. समादधते । ११–अतिशयेन प्रमाणम् इति प्रमाणतराः ।के स्वार्थिकाः प्रत्ययः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेपीति वचनात्पुंस्त्वं बहुत्वं : चोपपन्नम् । १२-–दक्षिणोत्तराभ्यामतसुच् इति साधु ।

_____

शैषिकाधिकारः षष्ठः ।

१–शेषे (४२६२ ) इति लक्षणमधिकारश्च । श्रुतौ विहितं शीतम् इति भवति । न च पुरुषः श्रीत इति प्रयोगोस्ति।२–श्रीमच्छब्दो न । वृद्धः। तेन वृद्धाच्छ इति छस्याप्रसङ्गः। तेन वृत्त्यनाश्रयेण श्रीमंत इति षष्ठयन्तं प्रयोज्यम् । केचिदभिनवशब्द निर्मितिरसिकाः श्रीमत्कशब्दं तत्रार्थे हे प्रयुञ्जते तेपि साहसाद्वारयितव्याः। नहि व्याकरणमभूतप्रादुर्भावनं भवति किन्तर्हि तस्य व्युत्पादनम् । ३: -पौरुषीत्यपशब्दः। पुरुषाद्वध विकारसमूहतेनकृतेष्विति ढचि पौरुषेयत्येव शब्दः। अयं ढब, शैषिको न। ४–सायंचिरंभावे इत्यादि सूत्रेण ट्युलि तुडागमे च अद्यतना इति सिद्धम् । ततश्छस्याप्रसङ्गादद्यतनीया इति प्रामादिकमेव। ५–बसव स्येमा इति वासवीया इति तु न्याय्यम्। वृद्धाच्छः वा नामधेयस्य वृद्धसंज्ञा वक्तव्येति त्वप्राप्तविभाष । अत एवोदाहृतं वृत्तौ देवदत्तीयाः दैवदत्ता इति । ६–प्राक्कालिकस्येति तु युक्तम् । कालाढ्। समनकालीन प्राक्कालीनमित्यादयोऽपभृशा एवेति प्रामाणिकाः। ७७ -विभाषाऽमनुष्य इति च्छे पर्वतीयानीत्येव साधु । पक्षेऽणि पाचैतानीतिं भवति । ८-वृद्धाच्छ इति छे वानरीया सेनेति वक्तव्यम् । ६–दक्षिणपश्चात्पुरसस्त्यक् इति त्यकि पाश्चात्य इति भवितव्यम् । १०--काश्यादिभ्यष्टबिठावित्यत्र