पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३२ ]
शब्दापशब्दविवेके

सिध्यति । तथापि प्रयोगो नास्तीति परिहरणीयमिदं शब्दरूपम्। एवं न्यूनस्य भावो नैयून्यं स्त्रियां नैयूनीति रूपसाधुवेपि न व्यवहार्यं शिष्टा नुग्रहोऽस्य नास्तीति । नहि वैयाकरणैः शब्दः क्रियन्ते –लालेन घटा 'इव। १४ –उद्भटभट्चतुर्येति तृतीयैकवचने रूपं साधु।चातुरीति चतुरशब्दात्ष्यबि स्त्रियां ङीषि सिद्धम्। उक्तो भावः ष्यञ्चेत्यपरो भावप्रः त्ययोऽनवकाशः। १५–वक्तुर्भाव वक्त ता । न हि सा शक्यं श्रोतुम् । भावो नाम यस्य गुणस्य भवाद् द्रव्ये शब्दनिवेशः स भवति । तस्याभिधाने त्वतलौ विहितौ । तेन प्रवचनमिति वाच्यम्।

_____

स्वार्थिकाधिकारः पञ्चमः।

१-ओषध्यः फलपाकान्ता इत्यमरः । तेने त्रीह्यादयस्ता भवन्ति । न हि ताः पेया भवन्ति । ओषधेरजाताचित्यणि औषधसिति तु प्रयोज्यम् । २-कालाच्च (५I४।३३ ) इति कालशब्दाद्रक्त कन् प्रत्ययो भवति । तेन कालिकेत्येव साधु । काली निशा, काली गौरितितु नित्ये वर्षे रक्तार्थाभावे। ३-वर्ण चनित्य इति लोहितशब्दात्स्वार्थे कनि लोहितक इति साधु । ४-जात्यन्ताच्छ बन्धुनि (५४९) इति स्वार्थिके अप्रत्यये ब्राह्मणातीयः । क्षत्रियजातीय इति च भवति । ब्राह्मण जातिरस्येतिं ब्राह्मणजातिः । स एव ब्राह्मणजातीयः। ५—किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे इत्यद्रव्य प्रकर्षे आमो विधेरिह द्रव्यप्रकर्षे तस्याप्रसङ्गात् अलन्तरमिति भवितव्यम् । ६–अपादाने चाहीयरुहोरित्यनेन पञ्चम्यास्तसिरिह न प्राप्नोति, हीयते पर्युदासात्। नैषा पञ्चमी । किन्तर्हि तृतीया। सार्वविभक्तिकस्तसिः। । स्वरेण वर्णेन वा हीनः इत्यर्थः। ७–सहस्र सहस्र' ये समेतास्तेष मित्यर्थः । तेनेह वीप्साsस्ति कारकत्वमपीति संख्यैकवचनाद्दीप्सायामिति शः । ८–यदा च प्रकर्षवतां पुनः प्रकर्षे बिबच्यते तदातिशायिकान्ता दपरः प्रत्ययो भवत्येवेति वृत्तावुक्तम् । तेन श्रेष्ठतम इति साधु। ६-२ ऋतो इलादेर्लघोः (६।४१६१) इति रविधौ परिगणनं कृतम् । तद्यथा