पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २३१
भावकर्माधिकारः

भावकर्मधिकारश्चतुर्थः ।

१--प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योम इत्यबि कौमारमित्येव साधु । २–गुणवचनब्राह्मणादिभ्यः कर्मणि चेति भावकर्मणोरर्थयोः ष्यबि दायाद्यम् इत्येव न्याय्यम् । उक्तेथे प्रत्ययपौनरुक्त्यं न युज्यत इति त्वप्रत्ययेन नार्थः । ३-चोरशब्दो मनोज्ञादिषु पठ्यते । तेन द्वन्द्वमनोज्ञादिभ्यश्चेति खुमि स्त्रियां टापि चौरिकेति रूपम् धात्वर्थनिर्देशे ण्वुल्वक्तव्य इति चोरयते खूलि स्त्रियां टापि चोरिकेति कृदन्तम् । ४–न नञ्पूर्वात्तत्पुरुषाचतुर संगतलवणवटवुधकतरसल सेभ्य इत्यत्र चतुरपर्युदासान्नबपूर्वादपि चतुर शब्दाद् गुणवचनब्राह्मणादिभ्यः कर्मणि चेति ष्यवि तद्धितेष्वचामादेरित्या- दिवृद्धौ सत्यामाचतुर्यमिति रूपम्। चतुरशब्दात्केवलात्तेनैव सूत्रेण ब्यचि पश्चान्नञ्समासे अचातुर्यमित्यपि भवतीत्युभयं सूपपन्नम्। ५-सुमनसो भावः सौमनस्यमिति गुणवचन ब्राह्मणादिभ्यः कर्मणि चेति ष्यबि सिद्धम्। ततः प्रत्ययान्तरस्याप्रसक्तेः सौमनस्यतेत्यपशब्दः-६-बिशेष इति भावे घब रूपम् । घबबन्तः पुंसीति नियमाद्यं पुमान् । उक्तो भाव इति भावे प्रत्ययान्तरस्य प्रसङ्ग एव नेति विशेषतेत्यपशब्दः। ७. -अवरयभाव आवश्यकम् । मनोज्ञादित्वाद्धे म । अव्ययाना भमात्रे टिलोपः। भावस्य बुजाऽभिहितत्वात्प्रत्ययान्तरस् य तलः प्रसङ्ग एव नास्तीत्यावश्यक्रतेत्यप . शब्दः। ८-कौमारमेव कौमारकम् । स्वार्थे कन्। कौमारव्युत्पत्तिस्तूक्ता। ९-गुणबचनेत्यादिना भावे सौकुमार्यं मिथ्येव साधु । १०–दूतवणिग्भ्यां चेति काशिका । तेन यप्रत्यये दूत्यमिति साधु । गुणवचने त्यादिना यबिं तु दौत्यमित्यपि भवति । ११-मुनेभयो मौनम् । इगन्ताच्च लघुपूर्वादित्यण् । उक्तो भावोऽणेत्यपरः प्रत्ययो नापेक्ष्यते। तेन मौनतेत्यपशब्दः । १२इगन्ताच लघुपूर्वादित्यणि गौरवमिति साधु । गुरुलघुनोर्भाव इत्यर्थे द्वन्द्वमनोज्ञादिभ्यश्चेति वुया भाव्यम्। पर्यायशब्दानां गुरुलाघवचिन्ता नास्तीति भाष्यप्रयोगात्साधु । १३-व्याकु लस्य भावः वैयाकुल्यम् । स्त्रीस्वविवक्षायां षित्वान्ङीषि वैयाकुलीति