पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३० ]
शब्दापशब्दविवेके

वचनम् । छन्दसि च सर्वे विधयो बिकल्प्यन्त इत्यणि दारवशब्दः साधुः। रजतादिगणे नीलदारु, पीतदारु तीव्रदारु इति शब्दत्रितयं पठ्यते। दारुशब्दः स्वतन्त्रस्तु नास्तीति प्राणिरजतादिभ्योय, इत्यघ्नोऽप्रसङ्गः । ५–प्राणिरजतादिभ्यो इत्यबि स्त्रियां ङीपि राजत्य इति न्याय्यं स्यात्। मयत्रौतयोर्भाषायामिति पक्षे मयटि रजतमय्य इति न भवति । रजतशब्दो नुदात्तादिः। ततोनुदात्तादेश्चेत्यवि सिद्धे पुनर्वचनं मयबाधनार्थम्। ६–मयचौतयोर्भाषायामभक्ष्याच्छादनयोरिति बिकल्पेन मयटिं मुञ्जमयीति साधु। ७अरमन विकार आरमः, अरमन इति च । टिलोपः पाक्षिकः । तस्य विकार इत्यण्। मयट्टतयोरित्यनेन मयटि अश्ममया नीति च भवति । ८-बिल्वादिभ्योऽण् इत्यत्र गणे कंपीसीशब्दः पठ्यते। तेन कार्षासानीत्येव साधु। मयर्विकल्पोपि न । आच्छादने मयटः प्रतिषेधात् । ९–त्रपुजतुभ्यां पृक् इत्यण षुगागमश्च। तेन जातुषाणि त्रापुषाणीति चभवति । ओरब, इत्यस्यापवादः। मयड्वैतयोर्भाषायमित्यनेन विभाषा मयट् तु भविष्यत्येव। तेन जतुमयानि त्रपुमयानीति चापि रूपे साधुनी। १०-हरीतक्यादिभ्यश्चेति फले प्रत्ययस्य लुब् भवति । हरीत क्यादिषु व्यक्तिरिति लुपि व्यक्तिर्युक्तवद्भवतीति हरीतक्य इत्येव साधु । ११-पुष्पमूलेषु बहुलमिति प्रत्ययस्य लुप् । बहुलवचनात् कचिल्लुक् । तेन युक्तवद्भावो नेत्यशोकमिति क्लीबं साधु। १२-दाण्डिनायनादिसूत्रे हिरण्मयमितिं निपातितम् । तेन हिरण्यमयमित्यपशब्दः। १३-सौवर्णं सुवर्णमये ( स्वर्णमये ) इति वा साधु। १४–नित्यं वृद्धशरादिभ्य इत्यत्र नित्यग्रहणं किमर्थम् । यावतारम्भसामथ्र्यादेव नित्यं भविष्यतीत्या शङ्कय एकाचो नित्यं मयटमिच्छन्ति तदनेन क्रियत इत्युक्तं काशिकायाम्। तेन अशब्दान्मयटि अम्मयमित्येव साधु । आप्यमिति त्वपशब्द एव। कचिद् आपोमयमिति दृश्यते । तच्छन्दसम् ।

_____