पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२८ ]
शब्दापशब्दविवेके

मत्वर्थीयाधिकारो द्वितीयः ।

१–प्रज्ञाश्रद्धालुभ्यो ण इति मत्वर्थीयो णः। श्राद्धाः श्रद्धावन्तः । २–मुखादिभ्यश्चेति इनिप्रत्ययो नियम्यते । तेनान्यो मत्वर्थीयो न भवति । तस्मात्सुखिनीत्येव साधु। २मादुपधायाश्च मतोर्वोऽय वादिभ्य इति मतोर्यत्वे यवादिपर्युदासा यवमापूनित्येव सधु। ४-द्वन्द्वो पतापगर्यात्प्राणिस्थादिनिः' इति वातातिसारौ इत्यस्माद् द्वन्द्वादिनौ वातातिसारी’ इति साधु। केवलादतिसारशब्दात्तु वातातिसाराभ्यां कुंकू इतीनौ कुगागमे चातिसारकीति साधु। ५-रसादिभ्यश्चेति मतुप् । रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् । अन्ये मत्वर्थीया मा भूवन् । प्रायिकमेतद् रसादिभ्यश्चेति वचनम् । इतिकरणो विवक्षार्थोऽनुवर्तते । अथवा गुणादित्यत्र पठ्यते । तेन ये रसनेन्द्रियादिग्राह्या गुणास्तेषामन्त्रं पाठः। ‘रूपिणी’ इत्यत्र तु शोभायोग्यता गम्यते। ६-धर्मः प्रयोजनमस्या इति ठकि स्त्रीत्वे पि धार्मिकीतिं साध्बवतिष्ठते । अस्थानेऽस्यं वाक्यस्य निवेशः । ७-निवृत्तदेहाभिमाना इत्येव वक्तव्यम् । न कर्मधारया मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर इति वामनवचनाद् निवृत्तदेहाभिमानिनः इति न युक्तम् । ८-रजःकृष्यासुतिपरिषदो वलच् इति मत्वर्थीयो बलच् इति निर्देष्टं रूपम्। प्रयोगस्तु दुष्यति । रजस्वला स्त्री भवति । इतिकरणो विषयनियमर्थः सर्वत्र संबध्यते । तेनेह न भवति । रजोस्मिन्प्रामे विद्यत इत्युक्तं काशिकायाम् । ९-अनेकवृत्तिरिति बहुव्रीहिणा वक्तव्यम् । उक्तो हेतुः। १०--द्वन्द्वा- कुचोपतापगर्हदिनिरिति फालकुदाललाङ्गलिन इत्येव युक्तम् । ११–सर्वाः शक्तयोऽस्मिन्निति बहुत्रीहिणा सर्वशक्तिरिति वाच्यम् । उक्तोऽत्र हेतुः । १२–ब्रह्मणो वर्चः= ब्रह्मवर्चसम् । ब्रह्महस्तिभ्यां वर्चस इत्यच्समा सान्तः । तदन्ताद् अत इनिठनबिति इनिः ! तेन ब्रह्मवर्चसिन इत्येवेति पाणिनीयाः। १३ -मादुपधायाश्च मतोर्वोऽयवादिभ्य इति सूत्र- स्याप्रवृत्तेः पितृमन्त इत्येव साधु ।१४–सुधियो धीमतो वेति वक्तव्यम् ।