पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२७
अपत्याधिकारः

फलितास्तवेति । अयमत्र समाधिः केकयशब्दो मूलप्रकृतिरेवोपचारा स्त्र्यपत्ये वर्तत इति न्यासः । केकयशब्दः शाङ्करवादिषु पठ्यते, तेन डीन् । १२-पृथाशब्दात् शिवाद्यणि पार्थ इति साधु। १३-मनोरपत्यं पुमान् इत्यर्थं तस्यापत्यमिति प्राग्दीव्यतीयोण्। कुत्सितं मूढं च चेत्तदपत्यं माणवशब्दाभिधेयं भवति । स्मरन्ति चू–अपत्ये कुत्सिते मूढे मनो रौत्सर्गिकः स्मृतः नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः इति । अल्पो माणवो माणवकः । अनधीतवेदत्वान्मूढत्वं विहिताननुष्ठा नाच्च कुत्सितवमित्याहुः १४–प्रथमो भ्रातृव्यशब्दो तत्र भ्रातुर्येच्चेति व्यत्प्रत्ययः द्वितीयः शत्रुपर्यायः । तत्र व्यन्सपत्ने इतिव्यन्प्रत्ययः १५–गङ्गाशब्दः शिवादिषु पठ्यते तिकादिष्वथ शुभ्रादिषु । तेनाणि फिबि ढकि च गाङ्गःगाङ्गायनिः गाढूय इति त्रीरूप्यं भवति । १६--राजस्वशुरद्यत् इति रवशुरस्यापत्य मित्यर्थं यति श्वशु” इति सिद्धम् । श्वशुरो नाम कश्चित् । तस्यापत्य मित्यर्थं तु बाह्वादिभ्यश्चेतीच् इति वाशुरिरपि। १७–यबमोरचेति गोत्रप्रत्ययस्य यमो बहुषु लुकि गर्गा इत्येव साधु। गोत्रे कुत्रादिभ्य श्च्फन, इति कुञ्जशब्दाच्च्फस् । ततो व्रातच्फयोरस्त्रियाम् (९।३११३) इति स्वार्थे ञ्यः । कौञ्जायन्यः। तस्य याद्यस्तद्राजा इति तद्राजसंज्ञा । तद्राजस्य बहुषु तेनैवास्त्रियाम् इत्यनेन व्यस्य लुकि कौञ्जायना इत्येव साधु। १८–आर्षे इत्यत्रापत्यार्थो नास्त्येव ऋषेरिदमार्यमिति व्युत्पत्तेः । तस्येदमित्यर् अपत्यार्थे त्वार्षेय इत्येव साधु । इतश्वानिम इति ढक् १९-बडवाया वृषे वाच्ये इति वचनाद् वडवाशब्दाद् चषेऽभिधेये ठग्विधिः । षाडवेयो वृषः स्मृतः बीजारवं इत्यर्थः । अपत्ये वणेव भवति वाडय इति । २०-दाशरथ इति शेषविवक्षायामणि ।

_____