पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २७ )

त्रापि । शुकनासस्यापि मनोरमायां तनयो जातः । अन्यत्र जनकस्य कर्तृत्वेऽपादानत्वे सत्यप्यत्र तदविवक्षायां कस्येत्याकाङ्क्षायां शेषे षष्ठी । सा लक्ष्मीरुपकुरुते यया परेषामित्यत्र किराते कर्मणोऽविवक्षायां शेषे षष्ठी । एवमेव क्षेत्रमन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरप्यन्यस्याधाय किमपि गृह्णातीति मिताक्षरावाक्येऽधिकरणस्याविवक्षायां शेषे षष्ठी । व्यायाम क्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च । व्याधयो नोपसर्पन्ति वैनतेय मिवोरगाः ॥ इति काशिकायामुद्धारे व्याधयो व्यायामक्षुण्णगात्रस्य पुरुषस्य सन्निधिमपि नाधिगच्छन्ति, संस्पर्शनन्तु दूरापेतमिति विवक्षया शेषे षष्ठी । तुरीये तु चरणे कर्मविवक्षातो द्वितीया । प्रायेण नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः । मातॄणां च कनीयांस इत्यत्र रामायणीये (१।६१।१९) वाक्येप्येकत्राधिकरणविवक्षया सप्तमी, अपरत्र कारकत्वाविवक्षया षष्ठी । प्रभ्वादीनां योगे चतुर्थी षष्ठी च दृश्येते । तत्रालमर्थे चतुर्थी, स्वाम्येधिकारे वा षष्ठीति विवेकः । प्रभवति मल्लो मल्लायेति चतुर्थ्याः, प्रभवति स्वस्य कन्यकाजनस्य महाराज इत्यत्र मालतीमाधवे स्वाम्ये षष्ठ्या दर्शनात् । ‘विधिरपि न येभ्यः प्रभवति ’ इति भर्तृहरिप्रयोगे त्वल- मर्थता कथंचित्समर्थनीया। स्वाम्ये सप्तम्यपि दृश्यते । प्रभवन्त्योपि हि भर्तृषु कारणकोपा मनस्विन्य इति मालविकायाम् । फलानां सुहित इति करणे शेषविवक्षया षष्ठी । शेषविवक्षैव च नियता सुहितार्थयोगे करणस्येत्याहुरिति कामसूत्रटीकायां जगद्धरः । पूरण गुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (२।२।११) इति करणस्य शेष विवक्षायां लिङ्गमप्यस्ति । अत्र काश्चिद्दिश उपन्यस्यन्ते--नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिरिति । अग्निस्तृप्यति नो काष्ठैर्नापगाभिर्महोद- धिरिति तु क्वाचित्कः पाठ आगन्तुकोऽसम्प्रदाय इति वेद्यम् । वेदेपि रणा- विवक्षायां षष्ठी दृश्यते- अनुकामं तर्पयेथामिन्द्रावरुण राय आ (ऋ० १।१७।३) । मन्दानः शिष्यन्धसः (अथर्व० २०।५३।१)। मन्दानस्तृप्यन्निति


 १ दिश उदाहरणानि ।