सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४]
शब्दापशब्दविवेके

इत्याश्रयेणैपिं प्रयुञ्जते । तद्यथा-छेदादिवोपन्नतरोत्रं तत्याविति (रघ१४१)। कविकुलपतिमनुसरन्तोन्येपि न दुष्यन्तीति दर्शनं चेत्तयास्तु। ५६--पाना ध्माधेट्टुशः श इति सूत्रेण श प्रत्यये जिम्न इति सिध्यति । उपसर्ग इति के चिदत्र नानुवर्तयन्तीत्युक्तं वृत्तौ । ५७--जागुरूक इति जागतैरूकः प्रत्ययो विहितस्तच्छीलादिषु कर्तृषी। प्रकृते ताच्छील्यमर्थो न घटत इति जागरिता इति पाठ्यम् । ५८ –क्रय्यस्तदर्थे इति क्रय्यशब्दो निपातितः। न तु विक्रय्यशब्दः। तेनाचो यति विक्रयमित्येव साधु। ५९-शीतं चातपश्चेति शीतातपम् , तत् साहयतीति शीतातपाषाट् इति तु युक्तम् । नहि वृत्तिवृषिव्यधिरुचिसहितनिषु काविति कौ पूर्वपदस्य दीर्घविधानात्। प्रकृतिप्रहणे णिजधिकस्यापि प्रहणमिति साहयतेरेपि विधिः। सहेः साढः स इति मूर्धन्यादेशः। ६०–ण्यन्ताद् विलापेर् एच् इत्यच्। तेन विलाप इति साधु । ल्युटि विलापनमिति च। एरजण्यन्तानामिति तु भाष्ये नास्ति । ६१-‘जन्तुद्द’ इत्यत्र ब्रह्मभ्रूणवृत्रेषु किप् इत्यनेन किब्दुर्लभः। ६२–शपथंकारमिति कुबः खमुचिं सिध्येत् । न च शपथे कर्मण्युपपदे छूसः खमुप, विहितः । तेनापशव्द एवायम् । ६३–अवद्यपण्यवर्या ग पणितव्यानिरोधेषु इत्यत्र वर्येति स्त्रीलिङ्गनिर्देश इति वृत्तौ स्थितम् । तेन वा” इत्येव साधु। उदाहृतं च तत्रैव वार्या ऋत्विज इति ६४वष्ट करणमिति सूत्रे वहत्यनेनेति च शकटमित्युक्त वृत्तौ । प्रकृत औपचारिक प्रयोग इति समाधेयम् । साधनमात्रं चार्थः । ६५–सुदुरोरधिकरणे गमेवें विहितः । वाहनमात्रे च करणत्वविवक्षा लौकिकी प्रसिद्धा । तेन सुगमेन ( शोभनो गमोऽस्येति बहुत्रीहिः) सुखसम्पातेनेति वा वक्तव्यम् । सुगमिति दुर्गप्रतियोगि। ६६-–संशयां भूतृवृजीत्यादिनाऽत्र खच् सुदुर्लभः । नहि शत्रुन्दम इति संज्ञाऽभिनेता। भगवतो रुद्रस्य संज्ञेषेति केचित् । उपचारादन्ये महाबिक्रमा अपि शत्रुन्दमा भवन्ति । ६७-रब इत्येव साधु। उपसर्ग उपपद एव षड्विधेः । ६८-तापत्रयशङ्करम् इत्यत्र कुत्र हेतुताच्छील्यानुलोम्येष्विति टः । अन्यत्र शङ्कर इति भगवतः संज्ञेति शमि धातोः संज्ञायामित्यच्। तेनोभयं साधु ।