सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २२३
कृतपरिशेषाधिकारः

४०-निद्रणमित्यपशब्दःनिद्राणमिति च शब्दः। निपूव द्र कुरसायाम् | इति धातुः। ततो ल्युट् । ४१–जनितेति मन्त्रे निपातितम् । लोके तु णिलोपाभाचा जनयितेत्येव साधु। ४२–उदि श्रयतियौतिपूणैव इत्यनेन घचि समुच्छाय इति तु युज्यते । विभाषाSSडि रुबोरित्यत्र बक्ष्यमाणं विभाषाग्रहणमिह सिंहावलोकितन्यायेन सम्बध्यते । तेन पक्षेऽच् । ४३-हिंसार्थानां च समानकर्मकाणाम् इति णमुलि लोष्टघातमिति साधु ४४-सर्जनमित्येव साधु । ल्युटि गुणस्य दुर्वारत्वात् । भुवश्चेति च्छन्दो विषय इष्णुविधि:। छन्दोबत्कवयः कुर्वन्तीति भाषायामपि प्रभविष्णव इत्यनयद्यम्। ४५-संज्ञायां भृतुवृजिधारिसहितपिदम इति संज्ञायां विषये खच् प्रत्ययो भवति तेन वसुन्धरेति रूपम् । असंज्ञायं तु बसुनो धरेति विग्रहेमाश्रित्य बसुधरेति रूपं साधु। ४६-ब्रह्मघृणधूषु किम् इति सूत्रे वृत्तौ चतुर्विधो नियम उक्तः । तेन हिमे कर्मण्युपपदे हन्तेः किब्दु- र्लभः। बहुलं छन्दसीत्यग्निमसूत्रवलदुपपदान्तरेपि किब् भवति। । मातृहा। पितृहा । छन्दोबकवयः कुर्नन्तीति वचनाद् भाषायामपि समाधेयम् । ४५–कृतन्न इत्यत्र मूलविभुजादित्वात्को द्रष्टव्यः । ४८-डुप्रकरणे मितवादिभ्य उपसंख्यानमिति डुः प्रत्ययः । तेन अनसूयव इति साधु। ४९-मन्त्रजपं प्रतीत्येव साधु। उक्तो हेतुः । ५०--काय पराम इति तूचितम् । यम उपरम इति धातुपाठादुपरम इत्यपि परिग्राह्यम्। ५१–ण्यतु भावे न भवत्यनभिधानादिति काशिकायां हनस्त च(३।१।१०८) इत्यत्रोक्तम् । तथाऽपि कृत्यल्युटो बहुलम् इति भावेऽत्र ण्यत् । ण्यति वृद्धौ समास्येति स्यात् । संज्ञापूर्वकविधेरनित्यत्वाद्वृद्धिर्न । बहुलकाद् यद्वा । ५२-ब्रह्मादिषु हन्तेरेवेति नियमात्कृदन्तवृत्या वेत्तीति वित्, ब्रह्मणो बिद् ब्रह्मविदिति समाधेयम्। ५३–उत्तरदायिन इत्यत्रार्थे दायिनि इत्यशक्तम प्रयुक्तपूर्वं च। ५४–अवे प्रहो वर्षप्रतिबन्धे इति विभाषा घस । पक्षेऽप्। तेनावग्राहोऽवग्रह इति रूपद्वयं निष्पन्नं भवति। ५५–उपन आश्रये इति निपातितम्। आश्रय शब्दः सामीप्यं प्रत्यासत्तिं लक्षयतीत्युक्त काशिकायाम। पर्वतोपनः। ग्रामोपन्न इति चोदाहृतम् । कपयस्तु निरंकुश