सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २१९
कृत्परिशेषाधिकारः

अप्रथमासमानाधिकरण इत्युक्तेः । व्यवहारानुपाति च । कवि- प्रयोगेषु तादृशस्य बिन्यासस्य दौर्लभ्यात् । ९–चकासु दीप्ताबि त्यदादिः। चकासतीत्येव साधु । नुमोऽप्राप्तेः । १०–कचित्प्रथमान्तेन सामान्याधिकरण्येपि शतृशानचौ भवत इति वृत्तावुक्ते रिदं साधु। ११-ईशाःईश्वरा भवन्तीति युज्यते वक्तुम्। ईशत इति वा प्रयोज्यम्। १२~वा नपुंसकस्येति विकल्पेन तुमि ददति, दन्तीत्युभयं साधु। १३-वरिवस्यन् इत्येव साधु। क्यच्प्रत्ययान्तो वरिवस्यतिः । नमो वरिपरिचत्रङः क्यच् इति क्यच् । तेनात्मनेपदनिमित्ताभावाच्छेषात्कर्तरि परस्मैपदमिति परस्मैपदम्।

_____

कृत्याधिकारः पञ्चमः ।

१–क्षय्यजयों शक्यार्थे इति निपातनाजय्यमिति साधु। २–अनुः वदितव्य इत्येव । सम्प्रसारणस्याप्रसक्तेः। ३- ण्यत्प्रकरणे लपिभि भ्यां चेति वक्तव्याण्ण्यति अपलाप्यमित्येव साधु । ४–ऋदुपधाच्चक्लूपि वृतेरिति क्यपि प्रवृत्यमित्येव शोभनम्। ५ -गमदचरयमरचानुपसर्गे इत्यनुपसर्गाचरेर्यद्विधेः सोपसर्गाण्ण्यदेव । तेन उपचार्य इतीष्यते । ६- एतिस्तुशास्वृदृजुषः क्यप्' इति क्यपि सम (हत्यानीति साधु । ७–अभ्युपेयमिति साधु। एरेतधूपं, नेणः। तेन क्यब्न । ८--आतो युच् इति युचि सुदाना इति स्यात् । दामोऽचो यति देया इते सिद्धे तस्य सुशब्देन प्रादिसमा सुदेया इति साधु। ९–बिंज इडिति इडादिप्रत्य यस्य ङिद्वद्भवे गुणाभावे उद्विजितव्यमिति साधु । १०-एतिस्तुशास् इत्यादिना यषि शास इदङहलोरित्युपधाया इत्वे शासिवसिघसीनामिति षत्वेऽनुशिष्य इत्येव साधु । ११–तेन न तत्र भवेद्विनियम्यमिति वार्तिक प्रयोगान्नियम्य |इति साधु। १२-ब्रह्मणश्चर्या ब्रह्मचर्या। अस्त्ययं प्रयोग इत्यभिधानकृतः। रूपसिद्धौ तु न किञ्चिद् दुरुपपाद्यमस्ति । कृत्यल्युटो बहुलमिति भावे कृत्यो यत् । यथा शाकुन्तले-का त्वं चित्रष्ट