पृष्ठम्:शब्दापशब्दविवेकः.djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २६ )

विप्रादीनां सम्प्रदानताऽपि शिष्टानामिष्टा । गुणवते कन्या प्रतिपादनीयेति शाकुन्तले । अर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् इति च भर्तृहरौ (२।१६ ) । प्रतिपादयतिश्च कथं वितरणमर्थमवतरतीति जिज्ञा- सायामर्पयतिविषये यदुक्तं पुरस्तात्तदिहाप्यवितथं विज्ञेयम् । क्वचिदन्यत्र सप्तम्यपि दृश्यतेऽर्पयतिवत्-धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् इति मनौ (११।६) । अत्रार्पयतिवत्सामीपिकेऽधिकरणे सप्तमी साध्वी । अपि वा सम्प्रदानेपि क्वचित्सप्तमीमिच्छन्ति शिष्टा इत्यदुष्टा ।

 केचिद् व्याकरणं प्राधीता[१] यस्य सकाशात्किञ्चिच्छ्रूयत ज्ञायत वा तमपादानमिच्छन्ति पञ्चमीं च ततो व्यवहरन्ति । तद्भसात् । उपयोगे नियमपूर्वकं विद्याग्रहणे सत्येवाख्यातुरुपदेष्टुरपादानता भवति न त्वन्यत्र । अन्यत्र तु षष्ठीमेव प्रयुञ्जते शिष्टाः । तद्यथा- राजा देवत्वमापन्नो भरतस्य यथाश्रुतम् इति श्रीरामायणे (३।६६।४) । रामस्तस्य तु विज्ञाय सीता सक्तां प्रियां कथाम् इति ( ३।६७।२१ ) । अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य हेति च (६।१८।१ ) । दिवौकसां कथयतामृषिभिर्वै श्रुता कथा । कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥ इति चरके (चिकित्सा० ८।३) । इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोस्मीमा- मुज्जयिनीम् इति चारुदत्ते ( अङ्कं २ )। वेदे खल्वपि—इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे ( शुक्लयजु० ४०।१० ) ।

 क्वचित्कारकस्याविवक्षा सम्बन्धस्य चैव विवक्षा । यथा मातुः स्मरतीति । मातृसम्बन्धिस्नेहादिकं स्मरतीत्यथः । यदा कश्चिन्मातृ विश्लेष दुःखमश्नुवानः शिशुमपरं वाऽम्बया सस्नेहातिरेकं लाल्यमानं सदयं वाऽवेक्ष्यमाणमालोकते तदा मय्यप्यम्बैवमाचरदिति भवति तस्य मातुः स्मरणम् । यदा चाऽऽकृत्या संवादिनीं योषां रथ्यया यान्तीं निशाम्य सादृश्यप्रत्ययेन प्रतिबुद्धसंस्कारो मातरमेव स्मरति साक्षात्, मातृमूर्त्ति रेवास्योपतिष्ठते चेतसि, तदा भवत्येव कर्मकारकस्यावकाशः । एवमन्य-


  आदिकर्मणि क्तः ।

  1. अध्येतुमारब्धाः ।