अन्तर्भूतण्यर्थोयं प्रेषणे वर्तते । ११७–नि:पूर्वो मुच्लू मोक्षण इति धातुः सर्पत्वत्यागे वर्तते । निर्मुच्यते भुजङ्गः। निर्मुक्तो भुजङ्गः। भुजङ्ग निर्मोक इत्यादिषु दर्शनात् । अन्यत्र तु प्रायेण केवलः प्रयुज्यते यावदर्थ बिशेषो न विवर्यते । तेन मोचयितुमित्येव वक्तव्यम् । समयतन्तेत्यत्रापि दोषः । सम्पूर्वो यतिः स्पर्धायां संघर्षे वर्तते विग्रहणे वा। यथा देयाश्च सुराश्च संयत्ता आसन् इति ब्राह्मणप्रयोगे। तथा चामरः पठति--स्रियः संयत्समित्याजिसमिद्युध इति । तेनायतन्त प्रायतन्तेति वा प्रयोक्तव्यम् । ११८- कुत्र ऋञ्च कौटिल्याल्पीभावयो भ्र्वादिषु पठितौ । नान्तरेणोपसर्गे । कुञ्चतिः प्रयोगमैवतरदृष्टः। तेन संकुचिताऽऽकुचिता वेति वक्तव्यम् । ११९--अवधारणं निश्चयनं भवति । तेन धृत्वेत्येव साधु । १२०-अत्रो च्छब्देन नार्थः । स च त्वचमुन्मथतीत्यादिषु चरितार्थः । अवलोडने तु केवलो मन्थतिर्मथ्नातिर्वा प्रयुज्यते । १२१ -समापत्तिः समागमो भवति । तेनोत्पद्यत इति वक्तव्यम् । १२२--अपहृत इत्येव व्यवहार्यम् । १२३–समालम्भो विलेपनमिश्यमरप्रामाण्यात् केवलो लभिः प्रयोक्तव्यः । १२४–भृतमिति साधीयः स्यात् । प्रायेण संभरणं संप्रहणं भवति साध्य साधनानाम् । १२५--भृञ् धारणपोषणयोर्जुहोत्यादिः सकर्मकः । निः पूर्वस्यास्य तिङि प्रयोगो नास्ति । कृत्स्वेव प्रायो दृश्यते । प्रकृते आयतते, लम्बते तदाश्रितो भवतीत्यर्थः। निर्बिभर्तीति तत्रार्थेऽप्रयुक्त पूर्वमितित्याज्यम्। १२६–सम्पातः संचारो भवति । तेन पतति निपतस्यवपतीति वा वक्तव्यम्। १२७–अत्रोपसंहरतिः प्रापणे बर्तत इति निर्देष्टो न्यासः ।
_____
अथ कृत्सु विवेचनम् ।
तत्र क्वाधिकारः प्रथमः ।
१--समासेऽनञ्पूर्वं कृत्वो ल्यप् इति प्रार्थेत्येव साधु। २-स्कन्दिरं गतिशोषणयोरिति धतुरनिदित् । तेन ल्यपि स्थानिवद्भावात् कित्त्वे नलोपः स्यादेव । नलोपनिषेधस्तु क्त्वि स्कन्दिस्यन्दोरिति सूत्रे क्त्वाप्रहणन्न