सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २११
क्वाधिकरः

प्रस्थानाभ्यनुज्ञासम्प्रार्थनम् । तेनाङ, त्याज्यः। पृष्ट इत्येव साधु । . ९७–ष्टिबु निरसने इति धतुर्नियमेन निपूर्वः प्रयुज्यते । तेन स्यऍनिोविं जातमिति वाच्यम् । ९८–पश्चात् परावर्ततेति वक्तव्यम् । उपावर्तनं वन्तिके प्रत्यागमनं भवति । शक्यं वा पश्चादिति पदं त्यक्तुम् । परावर्त तेत्येव बिबक्षितमर्थमर्पयिष्यति । ९९-परावपन्निति वक्तव्यम् । डेक्तो हेतुः । १००-उपचरन्तीत्यत्रोपशब्दो व्यर्थः । सेवनाद्यर्थान्तरप्रतीतेः । । १०१-शीर्षघातमित्येच साधु। अवघातस्तु त्रीह्यादेः कण्डने रूढः । १०२–अत्राप्यवंशब्दोऽस्थाने। अबरोधनं नामैकत्र व्रजादौ रोधनमुच्यते इत्युक्तं पुरस्तात् ।। १०३-–अत्र प्रशब्दस्त्याज्येः । प्रजातः प्रसूत इत्य नर्थान्तरम् । १०४–प्रतिवेशे प्रवसतीति विरुद्धं वचः। प्रवसति दूरे वसतिं इत्यर्थः। प्रशब्दो विप्रकर्षे । तेन वसतीत्येव वक्तव्यम् । १०५-आप्तंती स्येव साधु । उक्तः परापूर्वंस्य पततेरर्थः। १०६-न ह्याबद्ध आसमन्ताद् चिद्ध इति भवति । किन्तर्हि कुटिलः । तथा चामरः पठति-आविद्धे कुटिलं भुग्नमिति । तेन विद्ध इत्येव साधु। १०७–अभ्युपपूर्वः पद्यति रनुग्रहे वर्तते। अभ्युपपत्तिरनुग्रह इति चामरः। प्रतिशब्दः प्रयोक्तव्यः । प्रतिपत्तव्यमिति वक्तव्यम् । १०८– आहृत्येत्येव साधु । समाहरणं समचयनं भवति । १०९–आधीनमित्यसंस्कृतम् । अधीनमित्येव प्रयोक्तव्यम् । इनं स्वामिनमधिगतोऽधीनः । ११०–कल्पते सम्पद्यत इत्यर्थः । तेनोपशब्दस्त्याज्यः । १११–प्रमाणीत्येव साधु । संमार्जनं नाम समूहन्याऽघकरादेरपनयनं भवति । यथा मागॅसंमार्गः क्रियताम् । ११२-तपोऽतप्यतेत्येव वक्तव्यम् । अनुतापः पश्चात्तापोऽनुशयो भवति । ११३–अतिक्रान्तेति वक्तव्यम्। निष्क्रामति बहिर्गच्छतीत्यर्थात् । ११४–हेड़ अनादरे इत्ययं धातुर्नित्यमवपूर्वः प्रयुज्यते। तेनावहेलस इत्येव साधु। ढलयोरभेदः ।। ११५-नाऽभ्यासे इति धातुर्नित्यमाङ पूर्वः प्रयोगमवतरतिं न केत्रलः। तेन ऑ।मनांविति वक्तव्यम् । ११६–हि गतौ वृद्धौ चेति स्वदिषु पठितः । अयं प्रायः प्रपूर्वः प्रयुज्यते । यो ब्रह्माणं विधाति पूर्वं यो वै वेदांश्च प्रहिणोतिं तस्मै इति एवेताश्र्वतरोपनिषदि ।