१२ञ्शब्दोऽव्ययम् , नायं प्रार्निवोपसर्गाः कुत्सितं चेष्टन्ते विचेष्टन्ते असच्चेष्टन्त इति वा वक्तव्यम् । १३–आडङ 'पूर्वो मुन्नतिर्बन्धनं वर्तते प्रकृतेऽर्थं तेन विपर्यासो जातः। मुक्तशस्त्रस्येतेि वक्तव्यम् । १४–आछ पूर्वो बहतिर्जनने वर्तत इति धारणेचें केवलः प्रयोक्तध्यः । १५-प्रपूर्वो युजि व्य्वहारे वर्तते । सम्प्रपूर्वस्सु संयोजने संश्लेषणे । तच्च प्रकृते न युज्यत इति प्रयुङ्क्त इत्येव वक्तव्यम् । न च सम्यक् प्रयोगः सम्प्रयोगो भवति तत्रास्य व्यवहारस्यादृष्टेः। १६-हननीय इत्येव साधु । सम्पूर्वो हन्तिस्तु संबातीकरणे सपिण्डने वर्तते । १७-विपूर्व एव स्तृणातिः प्रपञ्चमह न केवलः। तेन विस्तीर्णामिति वक्तव्यम् १८–जन प्रादुर्भावे इति धातुः प्रपूर्वः प्रसवे विजनने वर्तते ‘प्रजता’ इत्यत्र तेन जायत इत्येव श्रेयः । १९-युगपरिवर्तानुसारेणेति वक्तव्यम् । आबतोऽभसां भ्रम इति रूढिः। यौगिकोट्यावर्तशब्दो वृत्तेः पौनःपुन्यमाह नत्ववस्थान्तर गमनम् । २० –अत्रानुना नार्थः। अनुशयो हि पश्चात्तापो भवति २१-विलेखनं विशिष्टं लेखनमिति मा स्म भुमीः विलेखनमुल्लेखन पादादिनाऽऽहत्य मृदाद्युत्क्षेपणम् भवति । तथा च कवीनां प्रयोग पदेन हैमं विलिलेख पीठम् (रघौ ६१५ )। यमोपि विलिखन्भूमिम् (कुमारे २२३ )। सन्दं ब्दायमानो विलिखति शयनादुत्थितः इमां खुरेण (काव्य प्र० )। क्वचिदालेख्नेपि वर्तते । तेन प्रकृते विशब्दस्त्याज्यः २२-संवीक्ष्णं विचयनं मार्गणं मृगणं मृग इत्यमरात्संविपूर्वं ईक्षतिर्विचयने गवेषणे वर्तते । तेन वीयेत्येव वक्तव्यम् । २३- सम्पूर्यो वृतु बर्तन इति धातुरुत्पत्तौ बर्तते नतु संव्यवहारे। तेन सह वर्त इत्येव साधु । २४–परापूर्वः पततिरुपगमने प्रत्यागमने च वर्तते । तेन आपतन्तीत्येव वक्तव्यम् २५-सम्पूवों दधातिः संयोजने सम्पर्चने वर्तते । तेन समा नार्थः दधती त्येव पर्याप्तम् । ६–अत्र समोऽभावे श्रयान्विन्यासः स्यात् । समा सहितोपि कथंचित्सह्यः २७–विलयनं द्रवीभवनमित्यनर्थान्तरम् । तेन विशब्दमपहाय लीयत इत्येव वाच्यम्। २८–अत्र समा नार्थः करोषीत्येव पर्याप्तम् । २९–प्रतिशयनं नाम देबतायाः सम्मुखे भक्तस्या
पृष्ठम्:शब्दापशब्दविवेकः.djvu/२७०
दिखावट