पृष्ठम्:शब्दापशब्दविवेकः.djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २५ )

(९।७४) । सीतामर्पय नन्तव्ये कोशदण्डात्मभूमिभिरिति च भट्टौ(९।१३६) । अर्पयित्वेश्वरे प्रह्वः प्रमना विरमाम्यहम् इति चान्यत्र । ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम् इति योगभाष्ये। अत्रेयं सप्तम्युपपत्तिः। यद्धि यं प्राप्यते द्रव्यं तत्तदन्तिकं प्राप्यते तत्संनिकर्षे संनिधाप्यत इवेत्यर्थ विवक्षायां सामीपिकेऽधिकरणे सप्तम्यपि साम्प्रतम् । न्यासार्थविवक्षायां शुद्धेधिकरणेपि सा दृश्यते । काठिन्यं स्थाविरे काये भवता सर्वमर्पितम् इति कुमारे (६/७३ )। क्वचिदन्यत्र तृतीयाऽपि विलोक्यते । तेषामक्षीणि कर्णाश्च नासिकाश्चैव मायया । निमित्तवेधी स मुनिरिषीकाभिः समार्पयत् ॥ इति भारते ( उद्योग०९६।३१)। अत्र समार्पयदित्यस्य समगमयदित्यर्थग्रहादिषीकाभिरित्यत्र सहार्थे तृतीयोपपन्नैव । विनाऽपि समं केवलस्याप्यर्पयतेः प्रयोगे सहार्थे तृतीया दृश्यते । तद्यथा–स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघव इति (रा० ३।२८।१९ )। द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् इति च (रा० ४।१।८ )। पुष्पै- र्युक्तमित्यर्थः। भारतेपि नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत् इति (कर्ण० ४८।३४)। कारकत्वाविवक्षायां तु षष्ठ्यपि दृश्यते-मातः,मार्गलग्नं कस्य समर्पयामि गृहमयूरकम् इति श्रीहर्षचरिते ( पृष्ठे १६४ )।

 इदं चान्यदप्येतज्जातीयकं परीक्ष्यमाणं भूयसे विनोदाय भविष्यति विदाम् । पद गताविति धातोः प्रतिपूर्वस्य ण्यधिकस्य प्रयोगेपि विभक्ति वैचित्र्यं दृश्यत आकूतकरम्। हेतौ प्रतिपादयतेः प्रापणमर्थो मुख्यया वृत्त्येति गत्यर्थत्वादणि कर्तुः कर्मत्वे ब्राह्मणानिति वक्ष्यमाणपध्ये कर्मणि द्वितीया नापूर्वा । सर्वरत्नानि राजा यथार्हं प्रतिपादयेत्। ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ इति ( मनौ० ११|४ )। अयशो जीवलोके च त्वयाऽहं प्रतिपादित इतेि (रा० २।७४।६) । अत्र क्तेनोक्ते कर्मणि प्रथमा। एतां मालां च तारां च कपिराज्यं च शाश्वतम्। सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ इति च (रा० ६।२८।३२ )। अत्रापि पूर्ववत्कर्मणि प्रथमेति विज्ञेयम् । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् इति भारते ( आदि० १६८।७२) । प्रतिपादनं वितरणमित्यर्थग्रहात्प्रतिपादयतिप्रयोगे