सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२ ]
शब्दापशब्दविवेके

जीवाम इत्येव साधु। १३-परा पूर्वो भवतिरकमैक; पराजयप्राप्तौ वर्तेते हैं । तथा च भाष्यप्रयोगः~ते ऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुरिति । | परिपूर्वस्तु नियमेन सकर्मकः । १४-राधीयोर्यस्य विप्ररन इत्यत्र ईक्षतेिर्देवपर्यालोचने बर्तत इति धात्वर्थेन कर्मणो दैवस्योपसंग्रहादकर्मकः । तेन वाक्ये दैवमिति न प्रयोक्तव्यम् । १५–जनी प्रादुर्भाव इत्यकर्मको धातुः। तेन पुत्रमजनयत् इति वाच्यम् । पुत्र व्यजायतेति वा वाच्यम् । अत्र शिष्टानुग्रहोस्तीति नास्यासाधुत्वमतिशङ्कनीयम् । अन्तर्भावितण्यशृs यमिति व्याख्येयम्। १६-लुलु च्छेदन इति तुदादिरर्थनिर्देशादेव व्यक्ती सकर्मकः । तेन कर्मणि लुलुपे इति वा वाच्यं ननाशेति वा प्रयोक्तव्यम् । १७–शिक्ष विद्योपादाने सकर्मकः। प्रकृते प्रयोजकव्यापारोऽपेक्षित इति. णिचि शिक्षयामासुरिति पठनीयम्। १८-स्तृम, आच्छादने। अर्थनिर्दे शादेवायं सकर्मकः । तेन विस्तीर्णा भूत्वेत्यादि वक्तव्यम्। १९-रुह बीज जन्मनीति भ्यादिरकर्मकः । आङ पूर्वंस्तु नित्यं सकर्मकोऽर्थान्तरे वृत्तेः । तेन स्कन्धमारोढमिति वक्तव्यम् । २०-स्वापार्थः संविशतिरकर्मको न त्वर्थान्तरे बर्तमानोपि । प्रकृते च गच्छेदित्यर्थः । तेन स्त्रियमिति कर्म युज्यते । २१यु मिश्रणेऽमिश्रणे चेत्यदादिः प्रायेण सकर्मकः । तेनात्मानमिति शेषोत्र बोध्यः । वेदे त्वकर्मकोपि यौतिष्टः। तथा च बह्वृचाः पठन्ति-प्रथा स वीरैर्दशभिर्चियूयाः (ऋ० ७१०४|१५) इति । २२-रबि लबि अबि शब्दे । लबि अचल सने चेति धातुपाठः।। तेनाकर्मकोऽयमिति मुक्तसंशयं शक्यं वक्तुम् । तेन प्रकृतेऽदोषः । २३–अत्रायपूर्वो लविर्धारण आश्रयणे च वर्तत इति युज्यतेऽस्य सकर्मकता। २४– शङ् स्वप्न इत्यकर्मकः, उपोपसृष्टस्तु सकर्मको भवतीत्यत्र, उदीर्घ नार्थंभि जीवलोकं गतासुमेतमुपशेष एहि इत्य् प्रमाणम्। २५–अड् व्याप्ताविति धातुः सकर्मको व्याप्यस्य कर्मणोऽपेक्षितत्वात् । तेनार्यावर्तमिति वक्तव्यम् । २६–रभ राभस्य इति नित्यं सकर्मकः । तेन कर्मणि प्रारभ्यतेति साधु स्यात् । २७-भत्र आमर्दन इति धातुः । अस्यार्थनिर्देश एव तथाऽभूद्यथाऽस्य सकर्मकत्वे सन्देहो मा भूत् । तेन