लङ् चेत्यनेन लङ् वा साधुः स्याल्लुङ् वा । ३३–अत्र पारोक्ष्यं नास्तीति न्यगदं न्यगादिवमिति वा वक्तव्यम्। ३४-लिङ् यदीति लिङ् प्रयोगः साधुः । ३५--धनिको भवेदिति न संभाव्यत इत्यर्थात् अनव- क्लुत्यमर्षयोरकिंवृत्तेपि इत्यनेन लिङ् वा प्रयोज्यो लुड्या । अत्र नामेति संभावनायम् । ३६-क्रियातिपत्तेरविवक्षितत्वादत्र लिङ्ग साधुः । विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणं न वस्तुसत्ता । तदाद्याचिख्या सायामिति सना ज्ञापितत्वात् । ३७–अत्र क्रियातिपत्त्यभावाल्लुडू प्रयोगश्चिन्त्य इति टीकाकाराः । ३८-अत्र लिखेत् , लेखिष्यतीति वा वक्तव्यम् । उक्तपूर्वो हेतुः। ३९-लडर्थे लुप्रयोगो व्यवहारानुगत इति भूमिकायां वितत्य प्रतिपादितमिति तत्रैव द्रष्टव्यम्। ४०--श्रयमपि लुप्रयोगः शिरैरभ्यनुज्ञातोsशिष्टोपि शस्त्रेणेति भूमिकायां निर्णीतम् । ४१अयमपि पूर्वेण तुल्ययोगक्षेम इति न पृथग्विचार्यते । ४२–इदम् निर्देशात् संनिहितः कालो ऽपरोक्षश्चेति तु विषयः । आगसत् इति वक्तव्यम्। ४३-वर्तमाने त्रुब आहादेशो विहितः । अत्र च भूतकाल- विषया क्रियेत्यस्थाने लट प्रयोगः । कवयश्च बहुशः प्रयुञ्जते । तत्र वर्तमानताध्यासेन व्याख्येयम् । अन्यथा स्मशब्दोऽधिकः प्रयोक्तव्यः । ४४–अद्यपीत्युक्ते नायं लिटो विषयः। तेन प्रविशतीत्येव साधु । ४५-चित्तविक्षेपादिनापि पारोल्यं भवतीति लिट्प्रयोगः सर्वथोपपन्नः।
_____
सकर्मकाकर्मकत्वाधिकारः पञ्चमः ।
१-चल कम्पने इति भ्वादिषु, चल विलसने इति तुदादिषु पठ्यते । तेनार्थानुरोधादुभयोऽपि धातुरकर्मकः । तथा च शिष्टव्यवहरः। तेन गतः, अतिक्रान्त इति वा वक्तव्यम्। २-खदिर् अध्रुविमोचन् इत्यर्थनिर्देश कर्मण उपसंप्रहादकर्मकः। तथाऽपि धात्वन्तरान्तर्रायात्सकर्मको भवति । तथा च भट्टौ प्रयोग:-रोदिम्यनायमात्मानम् (१८/३० ) इति । प्रकृते गतं चिन्तयन्तो रुदन्तीत्यर्थः । ३–तुभ गाये इति दिवादिषु पठ्यते ।