पृष्ठम्:शब्दापशब्दविवेकः.djvu/२६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( २४ )

कर्मत्वबाधेनात्मनीति वैषयिकी सप्तमी । यद्वा तद्वा भवतु । भार्गवस्ता- दृशानि तु वीररत्नानि न जात्या जुगुप्सत इति बालरामायणे द्वितीयेङ्के । प्रपूर्वो हरतिराहनने वर्तते । यदा चायं प्रासनेऽभिप्रेयते तदेन्द्रो वृत्राय वज्रं प्राहरत् इति ताण्ड्यब्राह्मणप्रयोगे क्रियया यमभिप्रैति सोपि सम्प्रदानमिति वचनेनेन्द्रस्य सम्प्रदानता सूपपादा । क्रियार्थोपपदस्य च कर्मणि स्थानिन इति वा विभक्तिः समर्थनीया । यजतिर्देवपूजा संगतिकरणदानेषु पठितः । देवान्यजते । यज्ञाहरणेपि वर्तते । अश्वमेधेन यजते । तत्र विशेषाकाङ्क्षायामश्वमेधे द्रव्यबुद्धिं विधाय करणत्वेन तत्परिग्रहो व्याख्येयः। अश्वमेधबुद्धया द्वारीभूतयेति वा नेयम्। जयतिः परोपसृष्टोऽभिभवे वर्तते । तथा चारीन्पराजयत इत्यादौ कर्मकारकमुपपद्यते । यदा चासहने प्रयुज्यते तदाऽसोढोर्थोऽपादानम्। अध्ययनात् पराजयते प्रमत्तश्छात्रः।

 अर्पयतिप्रयोगे कारकनानात्वं दृश्यते तदपि तत्तदर्थविवक्षयोपपद्यं भवति । त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये इत्यर्पयतिर्ददात्यर्थे प्रयुक्त इति युज्यते युष्मदः सम्प्रदानत्वम् । अर्पयतिर्नाम कथमिममर्थमर्पयतीति तावद् विमृश्यम् । ऋ गतिप्रापणयोरिति धातुर्णिच्सहकारेण प्रापणमर्थमाचष्टे, केवलस्तु गतिं वा प्राप्तिं वा। धातुपाठे गतिप्रापणयोरित्यर्थनिर्देशे प्रापणमिति प्राकृतेर्थे वर्तमानाद् आप्लृ व्याप्ताविति धातोर्ल्युटि रूपं न तु हेतुमण्ण्यन्तस्य । अर्तेर्हेतुमति णिचि प्रापणं नयनमर्थः । यश्चार्थः परत्र संक्रम्यते परं प्राप्यते स परस्मै सम्प्रदीयत इवेत्यर्थविवक्षया चतुर्थ्यौपयिक्येव । तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चनेति कठोपनिषदि । सिंहो मतिविभ्रममिवार्पितो न किञ्चिदप्युदाहृतवान् इति तन्त्राख्यायिकायाम् । अत्रार्पितशब्दो मुख्यया वृत्त्या गमितार्थाभिधायीति गत्यर्थत्वादणि कर्तुः णौ कर्मत्वम् । तच्च प्रयोज्यं कर्म क्तेनोक्तमिति देवशब्दात् सिंहशब्दाच्च प्रथमा। तच्छब्दान्मतिविभ्रमशब्दाच्चानुक्ते कर्मणि द्वितीया । दानार्थविवक्षाविरहा न्नेह चतुर्थी । कश्चित्सप्तम्यपि दृश्यते । अवगच्छति मूढचेतनः प्रियानाशं हृदि शल्यमर्पितम् । इति रघौ (८।८८)। अपथे पदमर्पयन्ति हीति च