आहूथपतेति च रूपं साधु पश्यति । तद्रभसात । वृद्धेर्लोपो बलीयानिति पूर्व लोपे वृद्धेरप्राप्तेः । ११४–क्ष्मेणीिचि पुगामस्याप्राप्तेर्मित्वाद् ह्रस्वत्वे च क्षमयामीत्येव खथु । ११५-अधि इङ अध्ययन इति डित्वादात्मनेपदी। गाङ् लिीति गङादेशेऽधिजगे इत्येव साधु। ११६-संग्राम युद्ध इति चुरादिष्वनुदात्तेत् । अस्मादेव खोपसर्गादडा दिविधिः। तेन असंग्रामयन्तेत्येव साधु। ११७-नयतेर्मुडि फौ ‘अनैषुः” इत्येव रूपम् । लङः शाकटायनस्यैवेति यातेझेर्जुस् । पक्षे ऽयानिति भवत्येव । ११८-एतेर्लिडि इति ह्रस्वेऽभ्युदिया इत्येव साधु। ११९--जागर्तेरनेकाच्त्वाद् धातोरेकाचो हलादेः क्रियासमभिहारे यङ इति यङ् नैव भवति । नतरां यङ्लुक् । भृशं जागर्तीति वा पुनः पुनर्जागर्ती ति वा वक्तव्यम् । १२०--सम्पपृच्छे इति कर्तरि लिट्यात्मनेपदे साधु रूपमभिमन्यतेऽश्वघोषः । इह प्रच्छेः सकर्मकत्वात् विदिप्रच्छिस्त्ररती- नामुपसंख्यानं कर्तव्यमित्यात्मनेपदं न प्राप्नोति । अकर्मकादित्यनुवृत्तेः । संयोगान्तत्वाद् असयोगाल्लिट् किन् इति कित्वं च नेति सम्प्रसारणमपि न । तेन प्रमद एवथमिति प्रामाणिकाः । १२१–‘शास’ इति अस गति दीप्त्यादानेष्वित्यस्य भ्वादेः स्वरितेतो लिटि रूपम्। न तु अस भुवि इत्यस्य । तेन न कश्चिदोषः । १२२--प्रशंसेत् इत्येव युक्तम्। युक्तस्वे उक्तो हेतुः । १२३–‘उपनयेतर इत्येव साधु । आचार्यकरणेर्थोऽप(धा- वामनेपदंविधानात्। उपपूर्वा नयतेलिडि शषि गुणेऽयादेशे यासुटि अतो येय इतीयादेशे बलि लोप उपनयेतेति रूपम्। १२४प्रोपाभ्यां समर्थाभ्यामित्यनेन क्रम आत्मनेपदं विहितम् । तत्र प्रक्रमत उपक्रमत इति शब्यिकरणमेव क्रमिमुदाहरन्ति व्याख्यातारः । वा भ्राशभ्लाशेस्यादिना विकल्पेन शपः श्यनि प्रोपपूर्वेस्य क्रमेरारम्भेणें प्रयोगो भवति न वेति विद्वांसो निर्णयं ब्रुवन्तु। १२५–शम लक्ष आलोचने चुरादिः। नान्ये मितो ऽहेताविति मित्वाभावे ह्रस्वो न । धातूनामनेकार्थत्वात् श्रवणे वृत्तिः । आत्मनेपदभावस्तु चिन्त्यः । १२६-उद्घाटनमिति घट संघात इत्यस्य चुरादे रूपं न तु घट चेष्टायामिति प्रादेः।
पृष्ठम्:शब्दापशब्दविवेकः.djvu/२५९
दिखावट