ष्विति प्रयुङ्क्तइत्येव साधु। १४३–शम लक्ष आलोचने इति चुरादिषु शमिरनुदात्तेत्पठितः। ते निशामयामह इत्येव साधु। नान्ये मितोऽहेता विति मित्वाभावः। १४४-क्तिश उपतापे दिवादिरनुदात्तेत् । तेन क्लिश्यत इत्येव साधु। १४–उदो नूर्वकर्मणीत्यत्र उद ईहायामिति वाक्यकारः पठति । तेनेहायाश्चेष्टाया अभाबादत्रोत्तिष्ठन्तीत्येव साधु । १४६–तुस हस हस रस शब्दे इत्यत्र भ्वादिषु हसतिः परस्मैपदी पठितः। तेन हसन्तीत्येव साधु । धातूनामनेकार्थत्वादल्पीभवेऽस्य वृत्तिः । १४७–खिद दैन्य इति दिवादिष्वनुदातेत् पठितस्तेन खिद्यत इत्येव साधु : मनस्त्वस्य दिवादिषु पाठपश्यन् खिद्यत इति कर्मकर्तरि प्रयोगमाह की १४८–संबदतीत्येव साधु । आत्मनेपदविधेरभावात् । १४९–आडः शसि इच्छायामिति भवादिष्वनुदात्तेत्पठितःतेनाशंसत इत्येव साधु । १५०–संग्राम युद्ध इति चुरादिष्वदन्तोनुदात्तेत् । तेन संग्रामयाञ्चक्र इयाम्प्रत्ययबत्छुचो नुप्रयोगस्येत्यनेनात्मनेपदे साधु । १५१–यतुकि शेषात्कर्तरि परस्मैपदमिति परस्मैपदे वरीवृतति इत्येव सोधु a १५२-निमन्त्रयत इत्येव साधु। उक्तो हेतुः पूर्वत्र (१२२ वा० ): १५३-शय आक्रोशे स्वरितेत्पठितः। शप उपालम्भ इति शपथेर्थेऽकर्तुगेपि फल आत्मनेपदं विहितम् । तेन शप इति युक्तम् । स्वाशयं प्रकाशयामी त्यर्थो विवक्षितो न तु शपथ इति न तडिति केचित्समाधिमाहुः । १५४–आडः शासु इच्छायामित्यत्राहणं प्रायिकं द्रष्टव्यमिति दीक्षितः । तेन प्रशास्मह इति साधु । १५५–अनुपसगतेि जानातेः . केवलात्पक्षे तङ् विहितः, सोपसर्गात्तु शेषात्कर्तरीति परस्मैपदमेव युक्तम् । तेनानुजज्ञावित्येव पाठ्यम् । नृपेणेति विपरिणामेन कर्मण्यात्मनेपमिति जयमङ्गला। १५६–संक्रामतीत्येव साधु । आत्मनेपदविधेरभावात् । । १५७-उपायद्यमः स्वकरण इति स्वकरणे विवाहेणै उपपूर्वाद्यमेरात्मनेपदं विहितम् । भट्टिस्त्वङ्कारमात्रमर्थमङ्गीकरोति । एवमाचरन्स वृत्त्यादि- वेंरोधादुपेक्ष्यः। विवाहादन्यत्र तूपायंसीदित्येव साधु। १५८—आह तरिह सकर्मकः, वक्ष इति कर्मणः श्रुतेः तेन आङो यमहन इत्यने-
पृष्ठम्:शब्दापशब्दविवेकः.djvu/२५१
दिखावट