पृष्ठम्:शब्दापशब्दविवेकः.djvu/२५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( २३ )

अन्यत्रापि विवक्षानियमो दृश्यते । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिमिति रघौ (२।२८) । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् इति हितोपदेशे, केशेषु जग्राह याज्ञसेनीं दुःशासनः , शिर स्युपजिघ्रत्यम्बा डिम्भम्, कण्ठे गृह्णाति प्रियां कान्त इत्यत्र रश्मीनां केशशिरः कण्ठस्य चाधिकरणता लोके नियता । अन्यथा सम्भाव्य विभ क्त्यन्तरं प्रयुञ्जानो जनो भ्रंशते व्यवहारवर्तन्या अक्षिगतश्च लोकस्य भवति । तेन यथात्र लोके समुदाचारो रक्षणीयः, श्रौती स्मार्ती वा व्यव स्थितिरास्थेया तथा वाङ्मयेपि लोकप्रतिष्ठितः शिष्टजुष्टो व्यवहारः सततं शीलनीयः साभिनिवेशं चानुसर्तव्यः ।

 धातूनामर्थान्तरसङ्क्रमादपि व्यतियन्ति कारकाणि । यथा सिञ्चतेः क्षरणेर्थे द्रवद्रव्यस्य कर्मत्वमार्द्रीकरणे करणे च करणत्वम् । यथा मेघोऽमृतं सिञ्चति । सिञ्चतीवामृतैर्वपुरिति। एवं ददातिकर्मणा सम्बद्धस्य न सर्वत्र सम्प्रदानता । न हि ददातिः सर्वत्र परस्वत्वापादपूर्वके द्रव्यत्यागे वतेते । दीयन्तां पक्षद्वाराणि ( विद्धशालभञ्जिकायाम् ), कवाटं देहीत्यत्र च पिधानेपि दृश्यते । ते गृहे ऽग्निमददुः। घ्नतः पृष्ठं ददाति । पूर्वत्र वाक्ये गृहस्य सम्प्रदानत्वं न। ददातिरिह निक्षेपे वर्तते, तस्य चाधिकरणापेक्षा । अपरत्र हननं कुर्वतोपि तन्न । ददातिरत्र सन्निधापने वर्तते । तत्सम्बन्धा- पेक्षया घ्नत इति षष्ठी साध्वी । शकि शङ्कायामिति भ्वादिषु पठ्यते । शङ्का च भयम् । तेनाधर्माच्छङ्कते साधुरित्यपादानताऽधर्मस्य सिद्धा। स एवाङ् पूर्व उत्प्रेक्षायां वर्तते । तत्र कर्मत्वमेवेष्यते । यथा धर्मेप्यधर्ममाशङ्कते मूढः । सन्नन्तो गुपिर्निन्दायां पठ्यते । स यदा निन्दापूर्विकायां निवृत्तौ विवक्ष्यते तदा पापाज्जुगुप्सत इत्यपादानता निर्बाधा। यदा तु केवलायां निन्दायां प्रयुक्तिस्तदा कर्मत्वमेवानवध्यं शिष्टजुष्टं प्रसिध्यति । यथा-किं त्वं मामजुगुप्सिष्टा इति भट्टौ (१५।१९ ) । जुगुप्सेरन्न चाप्येनमिति याज्ञवल्क्यस्मृतौ (३।२९६ ) । स्वर्गस्त्रीपूर्वनिर्माणं निजमेवाजुगुप्सतेति कथासरित्सागरे द्वितीये वेताले । जनापवादमात्रेण न जुगुप्सेत चात्मनीति काव्यमीमांसायां कविरहस्ये दशमेऽध्याये । अत्र निन्दाविषयविवक्षया