साधु । भुजोऽनवने इत्यवनबर्जितेऽर्थं आत्मनेपदम्, अबने (पालने ) तु परस्मैपदमिति भुङ्क्ते (= अनुभवति) भुनक्ति (=पालयति) इत्युभयं साधु । ६३-श्नाश्रु स्फुटशां सन इति सन्नन्ताज्जानातेरात्मनेपदविधिः, तेन जिज्ञासन्ते इत्येव साधु । ६४-नात्र मन्त्रकरणमर्थः । उपस्थानमिह सेवनं वा संनिधानं वा। स्तवनं तूपचारात् । तेनात्मनेपदस्याप्राप्तिः । ६५-उषा देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यात्त्रुघ्नमुपः तिष्ठत इति वक्तव्यम् । ६६-आङो यमहन इत्यकर्मकात्स्वाङ्गकर्मकाद्वा हन्तेरापूर्वादात्मनेपदं विहितम् । अत्र कपाटमिति कर्म श्रयत इति परस्मै पदं साधु। ६७-उद्विभ्यां तप इत्युद्विपूर्वोत्तपतेरकर्मकात्स्वाङ्गकर्मकाद्वा । } ऽऽत्मनेपदविधिः स्मृतः । अत्र स्वर्णम् इति कर्मणः श्रवणात्परस्मैपदं साधु। ६८-अत्र वञ्चनार्थस्य विरहाद् गर्धयन्तीति साधु। युधिवच्योः प्रलभेन इति बढ्नेयें एयन्ताद् गृध्यतेरात्मनेपदं विहितम् । ६६--समः प्रतिज्ञान इति संगिरन्त इत्येव साधु । ७०--नेर्विश इति निचिशेरात्मनेपदं ः साधु। क्लिश उपतापे दिवादिरनुदात्तेत् । अयमकर्मकः क्रयादिस्तु सकर्मकः। ७१-समः क्षणुब इति संक्ष्णुष्वेत्यात्मनेपदे साधु। ७२-भियो हेतुभये पुक्, भीस्म्योर्तेतुभये इति हेतुभये घुगात्मनेपदे विहिते। प्रकृते दण्डात्करणाद्भयं नेतु हेतोः प्रयोजकादिति । भाययतीत्येव वक्तव्यम्। ७३--अनुपसर्गाद्देति सूत्रेण केवलाज्जानातेः कर्तु भिप्रायक्रियाफल आत्मनेपदं विहितम् । तेनानुपूर्वान्तन्नेत्यनुजानीहीत्येव साधु । ७४-प्रद्रुह इति परस्मैपदनियमात् प्रवहन्तीत्येव साधु। ७५-निग रचलनार्थेभ्यश्चेति परस्मैपदनियमाद्भोजयतीत्येव साधु । ७६–अणाब- ! कर्मकाश्चित्तवत्कर्तृकात् इति शाययेत्येव साधु। अणौ शयतिश्चित्त यत्कर्तृकोऽकर्मकश्चेति स्पष्टम् । ७७–मृष तितिक्षायां दिवादिः स्वरितेत्। परेर्मु ष इति परिपूर्वस्यपरस्मैपदनियमः। तेन परिमृष्येति वक्तव्यम् । ७८ -खुधयुधनशजनेत्यादिना परस्मैपदनियमे योधयति जनयिष्यामीति च साधु। ७९-जनयिष्यतीत्येव साधु । उक्तो हेतुः। ८०. --समुदायो यमोऽप्रन्थे इति प्रन्थपर्युदासात्समुद्यच्छंतीत्येय साधु। ८१-नाशयतीत्येव साधु। ८२-समागच्छम् इत्यत्र गमिरापूर्वो नतुसम्पूर्य इति समो गम्यूच्छि-
पृष्ठम्:शब्दापशब्दविवेकः.djvu/२४७
दिखावट