सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
केवलविभक्रयधिकारः

स्वास्ये षष्ठीति दोक्षितवचनादात्मन इति वक्तव्यम् । २७–नव क्रोशानिति द्वितीयाऽत्यन्तसंयोगे। चैदूर्येण गुणेन नवक्रोश्यात्मकस्याध्वनोभिव्यप्तिः । विदूशब्दत्यागे तु तद्युक्ताध्वनः प्रथमसप्तम्यावितेि नव क्रोशाः, नवसु क्रोशेष्विति वा वक्तव्यम् । २८–भूयस्या संख्ययेतीत्थम्भूतलक्षणे तृतीया न्याय्या । २९--एकपञ्चाशतमित्यत्यन्तसंयोगे द्वितीया प्रयोक्तव्या । ३० अद्य रविचार इति व्यवहार्यंम्। दिनशब्दस्तु रविवार इत्यनेनैव गतrथंः । षष्ठी तु सुतरामनुपपन्ना । दिनमिति रबिचारस्य नाऽवयवः, न चत भिन्नं किञ्चिदस्ति । ३१-बलिनामिति निर्धारणे षष्टी । ईयसंस्तु | विभज्योपपदे विहितः । न चेह विभज्योद्यास्ति, निर्धारणाश्रय एवास्तीति इष्ठनेव युक्तः । तेन बलिष्ठ इति वक्तव्यम् । ३२-–व्यायामे परमरसिक | इति विषये कारकसप्तमी साधुः । ३३–अग्रेसरः श्रीमोहनदासकर्मचन्द्रो } दिव्यं निदर्शनमिति सामानाधिकरण्येन वक्तव्यम् । तत्र भवान् मोहनदासः स्वयमेव निदर्शनं न तु तत्सम्बन्धि किञ्चिदन्यत् । ३४-विभाषा गुणे ऽस्त्रियामित्यत्र विभाषेति योगविभागादगुणे स्त्रियामपि हेतौ पञ्चमी । ३५-इदं साधु। अव्यवहितपूर्वमुक्तेन हेतुनाऽगुणेपि हेतौ पञ्चमीति | धूमदिति साधु । ३६--स्वार्थपङ्क इति समस्तरूपकेण स्वार्थे पङ्क' इति व्यस्तरूपकेण वा वक्तव्यम् । स्वार्थे एव पङ्क इति । हि विवक्षति । ३७-चन्दनः पादप एव तु भवति । तेन व्यधिकरणषष्ठी नोपपद्यते । चन्दनकाष्ठमपि चन्दनमुच्यत इति पादपशब्दार्थवान्। ३८–प्राणा ! आहुतिर्दत्तेति वक्तव्यम् । प्राणा आहुतिरिति रूप्यन्ते । ३८–ददातिरत्र न दाने वर्तते । नहि पृष्ठ दीयते नाम, किन्तहिं भयाद्रणाद् द् तेन योधेन ? पराङ्मुखीभावाच्छत्रोदृग्गोचरी क्रियते । तेनात्र सम्बन्धमने नत इति षष्ठी युक्त । ४०–स्वीकृतेनार्थेन विरुद्धमिति वक्तव्यम् । अनुक्ते कर्तरि तृतीया। ४१–यशसि भागिनो भवन्तीति शिष्टजुष्टो व्यवहारः । न तस्य वाच्यपि भागोस्तीत्युग्वणत्। ४२–संबत्सरानित्यत्यन्तसंयोगे द्वितीयेष्यते । शतश इति शस्प्रत्ययः शसः स्थाने वेदितव्यः। ४३--वय- सीति वक्तव्यम् । भावलक्षणा सप्तमी । ४४–मासोऽयं माधव इत्येवं १ २