वाऽऽश्रया । ३३–सिंहासनस्याध इति वक्तव्यम् । अस्तातेरर्थेऽसि प्रत्ययान्तोधः शब्दः। ३४-हायोगेष्वपि दृश्यत इति कष्टमित्यत्र द्वितीया। ३५-हाशब्दोऽयं शोकवचनः । तेन कान्तारे पित्रादिः सम्बोध्यते । तत्र सम्बोधनप्रथमायां प्राप्तायां हायोगेष्वपीत्यस्यारम्भेऽपिशब्दस्य व्यभि चारार्थत्वात्सम्बोधने प्रथमपि भवतीति दुर्घटवृतिः । ३६--द्वितीया- ऽऽश्रेडितान्तेष्विति बुद्धेरिति युक्तम् । उपर्यध्यधसः सामीप्ये (८१७) इत्यनेनात्राश्नडनं न. किं तर्हि वीप्सायामिति षष्ठी समाहिता भवति । ३७-तौल्येऽत्र तुलाशब्दः । तुल्यायैरिति सूत्रे तु तुल्यार्थस्य तस्य पत्रु- दासात्तृतीया नानुपपन्ना । ३८–दिक्छब्दयोगेऽन्यारादिति पञ्चमी विहिता । तस्य परमात्रेडितम् (८।११२) इति निर्देशाद्वयबवाचिना दिक्छब्देन योगे पञ्चम्यभाव इति रक्षित इति दुर्घटवृत्तिः । ३६-उत्तर- मस्माद्भरतात् त्रिविष्टपमित्येवं न्यसनीयम् । ४०-कार्येणाभिन्नदेश- मित्यत्र सहार्थे तृतीया वेद्या । ४१–पर्वतशिखरस्याध इति साधु । साधुत्वे हेतुः पूर्वमसकृदुक्तः । ४२-तां च परित इत्येव साधु। ४३–कार्तिक्याः प्रभृतीति भाष्यकारवचनप्रामाण्यात्प्रभृतियोगे पञ्चमी भवति । अद्यशब्दस्त्यधिकरणशक्तिः । इह च पञ्चम्यर्थं लक्षयतीति नात्र किमपि वाच्यमस्ति । ४४-आरभ्यशब्दवद् आदायशब्दोपि प्रभृति पर्याय इति तद्योगे पञ्चमी साध्वी । . केबलविभक्त्यधिकारस्तृतीयः । १-स्वतन्त्रस्य ( सतः ) भारतस्य वर्षस्येति शेषे षष्ठी साध्वी । कर्मणोऽभावात्कर्मणि द्वितीयाय अत्यन्तमप्राप्तेः । २–यस्य च भावेनेति तस्मिन्नुपस्थिते इत्येवं म्यसनीयम् । उपस्थानमुपस्थितिरिति भाषक्तान्ते तु तस्येति शैषिकी षष्ठी साम्प्रतम् । --परमम् इति क्रियाविशेषणमिष्यते । ४–(अद्य) वर्षद्वयमिति वक्तव्यम् । अत्यन्तसंयोगे द्वितीयायाः प्रसङ्गले, न पञ्चम्याः। ५–त्रिभिर्जातिसद्दश्नरिति वक्तव्यम्। प्रकृत्यादित्वात्तृतीया ज्ञेयाः ।
पृष्ठम्:शब्दापशब्दविवेकः.djvu/२३९
दिखावट