सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ १७३
उपपदविभक्त्यधिकारः

आगत्य तदेकदेशी भवतीत्यर्थः । तेनाधिकरणविवक्षा युक्ता । अत्राह पदमञ्जरीकारः–गुणभूतसमागमापेक्षया समवायानिति द्वितीयानिर्देशः । लोके तु प्रायेण सप्तमी प्रयुज्यते द्रव्ये गुणाः समवयन्तीति । २५१-इदं साधु । उक्तो हेतुः ।

_____

उपपदविभक्त्यधिकारो द्वितीयः ।

१–अन्तरान्तरेण युक्ते इति ध्रुवाविति द्वितीया युक्ता । ध्रुवेरित्यप- पाठः । २–बहियगेऽपपरिबहिरञ्चवः पयस्या इति सूत्रज्ञापिता पतृमी प्रायेण दृश्यते । ज्ञापकसिद्ध न सर्वेनेति क्वचिन्नेति करस्येति षष्ठी समाधेया। ३-समुद्रादिति दिक्छब्दयोगलक्षणा पञ्चमी प्रयो क्तव्या । उत्तरं दक्षिणम् इत्यत्र नपुंसकत्वमपि दुःखकरम् । एवं तर्हि पाठः परिवर्तनीयः --उत्तरो यः समुद्राच्च हिमाद्रेश्चैव दक्षिण इत्यादि। ४-अभितः परित इत्यादिवचनेन परितोयोगे द्वितीयैव साध्वीति दुष्कृत इति वाच्यम् । ५--प्रसादनमिति वक्तव्यम् । अन्तरेणेत्यस्य स्थाने ऽन्यत्रेति वा प्रयोक्तव्यम् । ६–भातिरकर्मीक इति ममेति वक्तव्यम् । ७–अत्र द्वितीयाऽपाणिनीया । कातन्त्रकारस्तु ऋतेयोगे द्वितीयेत्यसुसूत्र इति तन्मतेन साधु । ८–अभिरभागे इति भागेर्थेऽवस्थितोपसर्गसंज्ञा। तेन कर्मप्रवचनीयत्वाभावात्तन्निमित्ता द्वितीया नोपपद्यते । उपसर्गनिमित्तं हे षत्वं चोपपद्यते । तेन ममोभिष्यादिति वक्तव्यम् । ६–उभसर्वतसोः कार्येति वचनाद् धिग्योगे द्वितीया युक्तेति वीर्यमित्येव साधु। १०–प्रका शादेरन्यद् इति पञ्चम्येवान्याराद् इति सूत्रविहिता युक्ता । ११–पृथग् विनानानाभिस्तृतीयाऽन्यतरस्याम् इति पृथग्योगे पक्षे पञ्चमी साध्वी । ३ १२ -उपपदविभक्तेः कारकविभक्तिर्बलीयसीति सम्प्रदाने चतुर्थं प्रयोज्या. प्रतिशब्दश्च त्याज्यः । १३–अध इत्यस्तास्तेरर्थेऽसिप्रत्ययान्तः । तद्योगे षष्ठ्यतसर्थप्रत्ययेनेति षष्ठ्य व युक्ता न पञ्चमी । १४–उपरीति उपर्यु परिष्टात् (qu३११) इत्यस्तातेरर्थे निपातितम्। तेनाद्यापि षष्ठ्यो वे