सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ १७१
कारकविभक्त्यधिकारः

शेषत्वविवक्षायां षष्ठी । २१४-धात्रीवेषेणेति प्रकृत्यादित्वाद् इत्थम्भूत लक्षणे वा तृतीयया भवितव्यम् । २१५--निद्राया इत्यत्र पञ्चमी दुरुपपादा। ल्यब्लोपे कर्मणीति चेन्न । अर्थासंगतेः। निद्रां परित्यज्य प्रबुद्धा इति नाथवद्वचः । निद्रापरित्यागस्य प्रबोधस्य चाविशेषात् । तेन निद्रितप्रबुद्धाः सुप्तप्रबुद्धा इति वा भङ्ग्यन्तरेण वक्तव्यम् । २१६–बहुधनस्य व्ययं करोतीति वा बहुधनं व्यययतीति वा साधु। व्यय वित्तसमुत्सर्गे इति, चुरादिषु पठ्यते । २१७-मयेत्यस्थाने करणतृतीया । विवक्षाविरोधात् । किं मां करिष्यतीत्येव शिष्टैरावृतः प्रकारः । तथा च भारते प्रयोगः--क्रुद्धः किं मां करिष्यति ( वन० २०६१२४)। २१८-नद्येति तृतीया दुर्लभा । उन्निद्र ( विनिद्र ) इवाभूत् , अजागरीदिवेति वा वक्तव्यम् । २१९–कर्णाटानित्येव साधु यस्मात् कर्णाटस्तस्य शरणम् । २२०-लघुवेतनेनैवेति वक्तव्यम् । २२१–यस्मिन्निति वैषयिकी सप्तमी युज्यते। २२२–आदिखद्योतैति निषेधात्तनूजेनेति वक्तव्यम्। २२३-पीत वेषेणेति करणे तृतीया स्यात्, सिध्यतीति क्रियापदमत्र गम्यते । बिभाषा गुणेऽस्त्रियामित्यत्र विभाषेति योगविभागाद्वा हेतौ पञ्चमी समाधेया । २२४–संस्कृतस्येति षष्टी साध्वी, क्रुद्योगलक्षण शैषिकी वा। २२५ -अघनत्या इति यदि षष्ठी तदा दोषःन ह्यघटो नामावनतेर्भिन्नः कश्चिदर्थास्ति । यदि च पञ्चमी तदाऽदोषः ।अबनल्यबटयोः सामानाधिकरण्यं ह्यभीष्यते। २२६-रजकायेति भाष्यकारमतेन साधु । स हि भगवा न्ददातिकर्मणाऽभिसम्बध्यमानमात्रस्य सम्प्रदानतामिच्छति । न तु स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनस्यैव। २२७-इदमनयद्यम् । उक्तो हेतुः २२८-जनिकर्तुः प्रकृतिरिति सूत्रे प्रकृतिशब्देन कारणमात्रस्य । ग्रहणं न तृपादानकारणस्यैवेति न्यासकारमतम् । तन्मतेन पुत्रादिति पञ्चमी साध्वी । २२९-हृदयेष्विति सप्तम्येव साध्वी, अबधिभावानु पपत्तेः । २३०–रूपान्तरेणेति साधु। उक्तो हेतुः। रूपान्तरं गत इति वा वक्तव्यम् । २३१–परीक्षोपयोगिनो लेखानिति साधु। उपेक्षते सकर्मकत्वात्। २३२–देवतार्चामिति कर्मणि द्वितीया प्रयोज्या। हसतेः