सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६ ]
शब्दापशब्दविवेके

साधु। १२६-बाढं सखीजन आख्याताऽस्ति । उपयोगस्तु नास्ति । उपयोगो नियमपूर्वकं विद्याभ्रहणमिति वृत्तावुक्तम्। तेनापादानत्वाभावे शेषे षष्ठ्येव साध्यो। १२७ –सापराधाय पहिलाय शिष्यायेति वक- व्यम् । १२८–अणौ मुखं भूमिं स्पृशतीति वाक्यम् । णौ स्पर्शस्य गतिथिशेषत्वा गत्यादिसूत्रेण मुखभिति कर्मणि द्वितीया युक्ता । १२९–पूर्वजैरिति वक्तव्यम् । १३०-–ज्ञानसामान्यार्थानामेव (गत्यादि- सूत्रे ) प्रहणं न तु तद्विशेषार्थानामिति दीक्षितमते तु स एव स्मारितोs स्माभिरित्येवं न्यसनीयम् । उत्तरे रामचरितेऽयं प्रयोगः । १३१-अत्र जुगुप्सन्ते इति केवलायां निन्दायां प्रयुक्ति नैं तु निन्दपूर्विकायां निवृत्ता वित्यपादानता नास्तीत्यवदातं वचः। १३१-होरा बीरित्यत्यन्तसंयोगे द्वितीया प्रयोज्या । १३३–दिशं दिशं परीता (परिगता) इत्येवं वक्तव्यम् । गत्यर्थत्वात्कर्तरि क्तः । १३४कल्पे कलितीत्येव साधु। तस्येन्विषयस्येति कर्मणि सप्तमी। १३५-पूर्वं श्रुतमनेनेति श्रुतपूर्वा । इनिस्तद्धितः। ते नानुक्तत्वाद्भरतमिति कर्मणि द्वितीयान्तं साधु । १३६ –अत्र वाक्ये सहानुभूतिरित्येकं पदम् । तेन कुटुस्वेन नास्य सहशब्दस्य योगः । तस्मात् क्रियाग्रहणमपि कर्तव्यमिति वार्तिकेन कुटुम्बायेति चतुर्यंन्तं साधु । १३७--उपपदविभक्तेः कारकविभक्तिर्बलीयसीति लोकायेति वक्तव्यम् । १३८–अन्वारोहणमित्येकं पदमिति क्रुद्योगलक्षणया षष्ठ्या पत्युरिति वक्तव्यम् । १३९मूर्तिमता पापजातेनेति साधु। समुदस्थीयतेति भावे तप्रत्ययः ।१४०-कर्मणोऽधिकरणत्वविवक्षायां चरणयोरिति सप्तमी साध्वी। १४१अणौ गणकसुता चरणसेवां जहातीति वाक्यम्. णौ तु गणकसुत्या चरणसेवां हापयति इति भवति। कर्मवाचिनि क्ते तु गणकसुतया चरणसेवा हापितेति साधु । १४२–वाचकेष्विति साधु । ईदृशे विषये चतुर्या नाव सरः । याच्या मोघा वरमधिगुणे इति मेघे कालिदासप्रयोगः । १४३-प्रजा गरेणेति करणतृतीयान्तमेव साधु । काव्यशास्त्रविनोदेन कालो गच्छतिधीमता- मित्यत्र यथा । १४५-संस्कृतभाषायां जनस्य (जनसामान्यस्य) कियाना द्र इत्येवं वक्तव्यम् । सर्वेषां साधारण इति सर्वसाधारणः। अनुक्तस्य