पृष्ठम्:शब्दापशब्दविवेकः.djvu/२३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( २१ )

पापेभ्य इति चानेकत्र पुराणे । मोक्ष्यसे स्वयमेव मुक्तो भविष्यसीत्यर्थः । कस्मादित्याकाङ्क्षायामाह- अशुभात् । अत्रापादानबाधप्रसङ्ग एव नास्तीति न दुरवधारं सुधीभिः । स प्राणान्मुमोच, तम्प्राणा मुमुचु- रिति वाक्यद्वयमभिप्रायभेदेनादौ प्रयुयुजिरे विवेक्तारो वृक्तारः, कालान्तरे तु समानार्थकमेतदिति साङ्कर्येणेत्यवकल्पयामः । अत्र शास्त्रपारावारपारीणः प्रमाणमिति नातोतिरिक्त सहामहे वक्तुम् । विवक्षया कर्तृकर्मादिव्यवहारः सर्व इति प्रसाधितं पुरस्तान्निदर्शिताश्च ते ते प्रदेशा यथाविवक्षमुपप्लवमानानां कारकाणाम् । तथापीदमत्रावधेयम् । नहि प्रयोक्त्रा निरवग्रहं यथा तथा शक्यं विवक्षितुम् । नेह तस्य स्वश्छन्दः प्रवर्तते । विवक्षा हि कुलवधूरिव न लौकिकीं प्रयोगमर्यादामतिक्रामति । विवक्षायाश्च नियतत्वात्सत्यप्यपाये धनुषा विध्यतीति भवति, न धनुषो विध्यतीति । व्यधनक्रियायां धनुष्करणं न, अपि तु निःसरतां शराणामेव करणत्वमिति प्रथमवैयाकरणाना*मपि न न विदितम् । तथापि परमार्थं निरूपयंस्तथा च प्रयुञ्जानो लोके द्वेष्यतां याति । कांसपात्र्यां भुङ्क्त इत्येव प्रयोगो न तु कंसपात्र्या इति । कंसपात्र्या उद्धृत्यैव त्वोदनं भुङ्क्ते । तेन तस्या अपादानता सिद्धा । तामविवक्षित्वाऽधिकरणतैवाभ्युपेयते । अपा दानविवक्षया पञ्चमीं प्रयुञ्जानो बाढं भवत्यपशब्दभाक् । अन्यत्रापि विव क्षानैयत्यं दृश्यते । गतिवचनानां धातूनां प्रयोगे यानस्य करणत्वमेव विव क्ष्यते न जातुचिदधिकरणत्वम् । रथेन यातीत्युच्यते न तु रथे यातीति । यद्यपि रथोधिकरणशक्तिरिति नापह्नूयते। यानशब्दो हि करणसाधनः। अपरे यानपर्यायवाचिनोपि करणतां न जहति । तथा चात्मनः पदं विमा- नेन विगाहमानः (१३।१॥) इति रघुकारस्य प्रयोगः । अष्टाध्याय्यां तत्र तत्र तल्लिङ्गोपलम्भ इमां प्रयोगपद्धतिं समर्थयते । वह्यं करणम् (३।१।१०२) ।


*अचिरोपसम्पन्नोऽचिरादेव गुरुमुपश्लिष्टो वैयाकरणो व्याकरणस्याध्येता प्रथमवैयाकरणः । अत्रार्थे प्रथमोऽचिरोपसम्पत्तौ ( ६।२।५६ ) इति स्वरसूत्रं मानम् ।