प्रथमान्तमेव न्याय्यम् इवशब्दप्रयोग उपमानोपमेययोर्विभक्ति साम्यमेवेष्टम् । उपमानं हि विशेषणान्नातिभिन्नम् । ३६--क्रुधद्वाहेति सूत्रेऽर्थग्रहणाद् दैवायेति सम्प्रदाने चतुर्थी साध्वी। ३७-द्विज इत्य धिकरणं विवक्षितम्। तेन सप्तम्यदुष्टा। सममत्राशहाणे दानमित्यत्र यथा ३८–न लोकाख्ययनिष्ठेति सूत्रेण षष्ठीनिषेधाज्जनापवादान् उत्कोचानिति चोभयं साधु। ३९-क्रियार्थोपपदस्येत्यप्रयुज्यमाना यागमिक्रियायाः कर्माणि चतुर्या सागरायेति साधु। सागरमुपगन्तुमित्यर्थः। ४०–अकेनोर्भविष्य दधमर्ययोरिति षष्ठीनिषेधेऽनुक्ते कर्मणि द्वितीयेति भगवन्तमिति साधु। ४१-कूपैः किं प्रयोजनमित्येवं न्यासो युक्तः । गम्यमानाऽपि क्रिया कारकविभक्तः प्रयोजिकेति वामनवचनात् कूपैरिति करणतृतीयान्तं साधु । ४२-अधिकरणविवक्षायां चरणयोरिति साधु । ४३ कर्मसंज्ञा ह्यकर्मणामिति महीमिति साधु । ४४–प्रियशब्दः कप्रत्ययान्तः कृद्योगलक्षणया षष्टया एकस्य सर्वेषामिति च वक्तव्यम् । ४५–कायो वर्णा विभागविषयः स च विभागः पञ्चभिर्वेगैरुपलक्षित इतीत्थम्भूत लक्षणे तृतीया युक्ता। ४६-निपातेनाप्यभिहिते कर्मणि न कर्मविभक्ति रिति वामनवचनाद् धर्म इत्येव साधु। ४७–अधिशीङ्- इत्यादिनाऽs धारस्य कर्मसंज्ञायां सर्वप्रदेशान् इति साधु ४८ त्यधिकरणविवक्षैव नियता ४९–अशिक्षिता इत्यजातशिक्षा इत्यर्थं इतचि तद्धिते तपः शब्दार्थे इति सप्तमी साध्वी । तपः शब्दार्थमशिक्षि तवन्त इति वा वक्तव्यम् । ५ -अत्यन्तसंयोगे द्वितीया तु न्याय्या तेन चिरकालायेत्यपशब्दः ५१-भीत्रार्थानां भयहेतुरिति अनभिमतायै दयात् इति वक्तव्यम् । ५२-अधिकरणे शिबके सप्तमी युक्ता ५३–याचान् इति प्रन्थविशेषणत्वेनान्वेति, क्रियाविशेषणं चेष्यते तेन यावदित्येव साधु। क्रियाविशेषणानां क्लीबत्वं कर्मत्वमेकत्वं चेष्यत इति द्वितीयैकवचनं साधु। ५४–संस्कृतेनेति तृतीयान्तमेव साधु। इत्थम्भूतलक्षणे प्रकृत्यादिभ्य इति वा तृतीया। ५५–त्रुटीरिति द्वितीया न्तमेव साधु । सूचनमिह बोधन उपचर्यते । तेन
पृष्ठम्:शब्दापशब्दविवेकः.djvu/२२५
दिखावट