१९--तेन भवितव्यमित्येव साधु । २०–चतुर्दश वर्षाणीत्यत्यन्तसंयोगे द्वितीयैव साध्यो । यद्यपि गमनक्रिया क्षणिका न चतुर्दश वर्षाण्यभि व्याप्नोति तथापि गमनक्रियात्र आसक्रियामन्तर्णयतीति प्रयोक्तृविवक्षा । तया च चतुर्दशवर्षव्याप्तिरस्त्येव । चतुर्दश वर्षाणि वत्स्यतीति बनं गच्छेदित्यभिप्रायः । एतज्जातीयकश्च प्रयोगो भारते-आत्मना हि वयं दोषाद् विनष्टाः शाश्वतीः समाः ( शा० प० ७३२) इति । २१–पाठ शालेतिगमिझियान्तभूतया उद्विशिक्रियायाः कर्मेति द्वितीयोपपन्ना । साक्षाद् गमिक्रियाकर्मत्वे तूक्ते कर्मणि प्रातिपदिकार्थमात्रे प्रथमा स्यात् । २२–मातेवेति प्रथमाऽनुपपन्ना । मातरमिवेति तु युक्तम् । २३ गत्यर्थानां धातूनां प्रयोगेऽधिकरणत्वमविवक्षित्वा करणत्वं विवक्षन्ति शिष्टाः । तेन पथा श्रेयसा प्रणीयेत्येवं वाग्व्यवहारोनुभृतो भवति । २४-घोरया निद्रयेति इत्थम्भूतलक्षणे इति तृतीया युक्ता। सप्तम्या नार्थः । आधारस्या सत्त्वात् । घोरं निद्राणाः शेरत इति प्रकारान्तरेण वा वक्तव्यम् । २५अयतिः सकर्मकः। तेन परमात्मानं संश्रित इत्येव साधु। २६=कारकत्वस्यैचा- विवक्षायां पुष्पाणामिति साधु। अपानत्वस्याविवक्षायां कारकत्वस्य च विवक्षायाम् अकथितं चेतिकर्मसंज्ञायां तु द्वितीयैव युक्ता पुष्पाणीति । चिनुते इत्ययपूर्वः प्रयोक्तव्यः । २७--वैषयिकेधिकरणे द्विषत्सु, आगस्कृत्सु इति चेष्यते । २८—द्विष अप्रीतौ सकर्मकः, तेन कंचिदित्येयः साधु। २९--तवेत्यस्य स्थानेऽनुक्ते कर्तरि तृतीयैव युक्त1 न लोकाव्य यनिष्ठेति कृद्योगलक्षणायाः षष्ठया निषेधात् । ३०-जगद्र पेणेत्येव साधु । प्रकृत्यादिभ्य इति वा इत्थम्भूतलक्षणे इति या तृतीयैव साध्यं । तथा च शिष्टप्रयोगः--पयो दधिभावेन परिणमते। ३१--नैनेन मुनिना भवितुं शक्यमित्येवं न्यासो युक्तः । शक्यमित्यपहाय शक्त इति वा प्रयोज्य मित्यूजुमार्गः। ३२-~न लोकाव्ययनिष्ठेति सूत्रे इष्णुचोपि प्रयोगे निषेध इति वृत्तौ स्थितम् । तेनातपमिति द्वितीयान्तमेव साधु। ३३-उत्सवेन भवितुं शक्यमित्येवं साधू करणीयम् । ३४--पर्यादयो ग्लानाद्यर्थे चतुथ्र्योतिः समासविधानालिङ्गाद् अध्ययनायेति वक्तव्यम् । ३५-सहोदरा इति
पृष्ठम्:शब्दापशब्दविवेकः.djvu/२२४
दिखावट