सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८]
शब्दपशब्दविवेके

क्तिन इति ङीषि सिद्धमिति दुर्घटवृत्तिकारः । तद् वैयाकरणस्य व्यायाम- मात्रम् इति वयम्। ५६-मुधाया धर इति धरशब्दः पचाद्यजन्तः, तेन सुधाधराः, इत्येव साधु। ५७-युप्रत्यये इदानीन्तनीष्वित्येव साधु । ५८—डटि तमडागमे च स्त्रियां ङीपि विंशतितमीति साधु । ५९-चरवारः पादा अस्या इति बहुत्रीहौ चतुष्पदी। पादो न्यतरस्यामिति डीप् । पत्ते : चतुष्पात्। ६०--उगितरचेतेि ङीपि बहुश्रेयसीति साधु । ६१--त्रीणि सूत्राणि यस्या इति बहुत्रीहौ ङीब्दुर्लभःत्रिसूत्रेति तु साधु । कथंचिद् द्विगुसमाश्रये तु न दोषः । ६२-अणि तद्धिते स्त्रियां ङीपि आर्षीत्येव साध। ६३-प्रमाणमित्यजहल्लिङ्गवचनम् । ६४--मात्रशब्दोऽवधारणे वर्तमान नपुंसकम् । अत्रार्थं चेदं नित्यमेकत्वे व्यवह्रियते । तेन पुत्तलिका मात्रमित्येव साधु । ६५-इण्नशजिसर्तिभ्यः क्वरप् इति क्यरपि क्रियां पि अविनश्वरीत्येव साधु । ६६–श्रुतिगोचर इत्येच साधु । भूते- गचर इति विग्रहः। अस्य साधुत्वे हेतुः पूर्वमुक्तः । ६७-शततमम पीत्येव साधु । डटि तमडागमे स्त्रियां ङीपि शततमीति रूपम् । ६८-शुद्धा चामहत्पूर्वा जातिरिति टापि शुद्धेत्यत्र साधुःपुंयोग एव शू द्वीति भवति । ६९--क्षीरपेत्येव साधु । टकोऽप्राप्तेः । आतोनुपसर्गे इति कः, ततष्टाप् । सुरापीति तु सुष्टु । ‘सुरासीघोःइति वक्तव्या गपोष्टक् इति टक्। ततो ङीप् । ७०--पचादिषु चरट् इति निर्देशाद्विल्लक्षणे ङीपि अनुचरति साधु । एवं सहचरीत्यस्यापि साधुत्व द्रष्टव्यम्। ७१-बाधेति भिदादेरा कृतिगणत्वादङि टपि सिद्धम् । ७२-कोकिलेत्यजादिगणे पाठाद्वापि प्रसिद्धम् ।

_____

अथ विभक्तिषु कारकविभक्त्यधिकारः प्रथमः ।

१–तेषामित्यसाधु । नलोकाध्ययेत्यादिना क्रुद्योगलक्षणायां षष्ठ्यां निषिद्वायामनुक्ते कर्तरि तृतीयया तैरित्येव वक्तव्यम् । २–अपवर्गे तृती चेति तृतीयया परश्शतैरिति वाच्यम्। अपवर्गे तृतीया न कारकविभक्तिः ।