सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५७
स्त्रीप्रत्ययेषु विवेचनम्

समुत्सादक” इत्येव साधु टिल्लक्षणे ङीषि । ३९-चिरन्तन्यः, मृन्मय्य इत्येव साधू । पूर्वत्र ट्युल्प्रत्ययः, अपरत्र च मय ४०--प्रकृतेरागत प्राकृती इति तु न्याय्यमणि तद्धिते स्रियां च ङीपि ४१ –श्रवणयुगली त्यपशब्दः। युगलशब्दस्य गौरादिगणेऽपाठात् । श्रवणयुगलमित्येव तु, शब्दः ४२-—सन्देहदोलाऽऽस्पदं यस्यास्तामिति बहुत्रीहिः। तस्य च विशेष्यनिघ्ने लिङ्गवचने इति श्रीलिङ्गता ४३-शेमुषीमुषीमित्यत्र स्त्रीप्रत्ययो दुर्लभः। शेमुषीं मुष्णातीति शेमुषीमुट्। क्विप् चेति क्विप् प्रत्ययः ४४ -अशरण्यानां शरणमित्यर्थेऽशरण्यशरणमिति स्यात् । शरणशब्दस्याजहल्लिङ्गत्वात् ४५-स्वभावादागत इत्यथ ठचि स्वाभा विकमिति भवति । तेन स्त्रियां ङीपि स्वाभाविकीत्येव साध्वी शब्दाकृतिः । ४६ -हृदयं धाम यस्या इति बहुत्रीहौ अन उपधालोपिनोऽन्यतरस्यामिति पक्षे ङीपि साधु हृदयस्य धामेति षष्ठीसमासे तु ह्यधाम्ने इत्येव साध ४७-घ्नघस्य नू नप्तनप्खाश्च प्रत्यया इति वार्तिकेन तन- अत्य्यान्तो नूतनशब्दः। तेन स्त्रियां टापि नूतनाविति भवितव्यम् । ४-अभिलाषशब्दो घड्यन्तः । घबबन्त इति लिङ्गानुशासनेन पुंसि नियतः । तेन फलाभिलाष इत्येव न्याय्यम्। ४९--परिक्रमशब्दो घवन्तः । तेन पुंसि नियतः। अतः परिक्रमामिति हेयम्। ५०--कतिपयशब्दो ह्यचि प्रत्यये पुगागमे च सिध्यतीत्याहुः । अयचि स्वतन्त्र प्रत्यये स्त्रियां ङीब्दुर्लभ इति टापि कतिपयेति साधु आधुनिका अभिधान कृतस्तु स्त्रियां कतिपयीत्याहुः । तत्र प्रमाणं मृग्यम् । ५१-किंयत्तबहुष्वच् इत्यचि किङ्करा इति साधु। क्रियाशब्दोयम्। जातिवाचित्वे तु षि किङ्कर्यं इति स्यादेव । ५२–दुःशासनः पुरःसरो यस्यास्तामिति विग्रहः। तेन पुरःसर शब्द उपसर्जनम्। टप्रत्ययान्तत्वे प्यनुपसर्जनादित्यधिकारादत्र टिल्लक्षणो ङीब्न । १३-भीरुरित्यत्र ऊड् उत इत्यूङ मनुष्यजात्य विवक्षायां न कृतःतेनादोषः। ५४–संज्ञापूर्वको विधिरनेित्य इति हस्वस्य गुण इत्यस्याप्रवृत्तेः पीवरोरु इति संबुद्धौ साधु। ५५–भितृणीति प्रमाद एवायम्। भिक्षु' भिक्षुत्वं नयति प्राप्नोति इति नयतेः क्विषि, कृदिकाराद