पृष्ठम्:शब्दापशब्दविवेकः.djvu/२२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( २० )

कौन्तेय मा प्रयच्छेश्वरे धनमिति भारते । वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जड इत्युत्तरे रामचरिते । सर्वत्र चामीषु प्रयोगेषु तदस्मिन्वृद्ध्याय लाभशुल्कोपदा दीयते (५।१।४७ ) इति वचः प्रमाणम् ।

 लभेर्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे दृश्येते, ते अपि विवक्षयैव व्यवति ष्ठेते । प्रयोज्यकर्तुः कर्मत्वं यथा -इदमौपहारिकमार्यमाणवकं लम्भय। तदभावो यथा–सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् इति। प्राप्तिरेव लभेरर्थः । तथापि सर्वा प्राप्तिर्गतिपूर्विकैवेति प्राप्तिगत्योः कार्यकारणयोरभेदोपचारः। गतिश्च क्वचित्प्रत्यक्षा क्वचिन्मानसी । तत्र विवक्षावशाल्लभिः क्वचित्प्राप्त्युपसर्जनां गतिमाह क्वचिद्गत्युपसर्जनां प्राप्तिम् । आर्यमाणवक औपहारिकं लभते । अत्र आर्यमाणवके औपहारिक संक्रान्तिः प्रत्यक्षा। इह स्पष्टमेव गतिः प्रधानम् । मुख्यां गतिमन्तरेण लब्धेरयोगात्। द्वितीये तूदाहरणे बौद्ध्येव गतिरनुमेया न प्रत्यक्षेति प्राप्तिरेव प्रधानम् । न हि सितिमा मुनेर्वपुरुपैतीति शक्यते मुख्यया वृत्त्या वक्तुम् । व्यपदेशिवद्भावेन तूपपद्यते प्रयोगः ।

 क्वचिदभिव्यक्ततरमप्यपादानत्वमुपेक्ष्य कारकान्तरं विवक्षन्ति सन्तः । देवदत्तः प्राणान्मुमोच । देवदत्तः प्राणैर्मुमुचे। इह देवदत्तस्य प्राणैः समं वियोग इति नितान्तमुत्तानम् । वियोगश्चोभयनिष्ठ इति वियोक्तारं वियुज्यमानं चार्थं समं निश्रयते । इदं च नितरां विवक्षानिघ्नं तयोः कतरस्यावधिभावः कल्प्येतेति । यदि नाम प्राणा ध्रुवोर्थोऽवधिरिति वा कल्प्येरंस्तदा देवदत्तस्य वियोक्तृता वियोगे कर्तृताऽर्थादापद्यते । तेन प्राणशब्दात्पञ्चम्या भवितव्यम् । परं मुच्लृ मोक्षण इत्ययं धातुः सक- र्मकः । तत्प्रयोगे कर्माकाङ्क्षितं भवति । अपादानमुत्तराणि कारकाणि बाधन्त इति वचनादपादानत्वं प्रबाध्य कर्मविवक्षायां प्राणानिति द्वितीया। अथ देवदत्तोऽवधिरित्यभ्युपेयते तदोक्तरीत्या तस्यापादानतां प्रबाध्य मुञ्चतेः कर्मत्वेन तत्रोक्ते कर्मणि प्रथमा। प्राणैरिति चानुक्ते कर्तरि तृतीया सूपपन्नेतेि सर्वमवदातम् । मुचेः कर्मकर्तरि प्रयोगे तु प्राणादेरपादानत्वम- विहतं तिष्ठति । यज्ज्ञात्वा मोक्ष्यसेऽशुभादिति गीतासु। मुच्यते सर्व