तत्प्रकृतेः सिनोतेरपीति विसिन्वन्तीत्येव साधु। २२-भुवनप्रथित प्रख्यानामित्येव साधु । असिद्धे शस्य यद्वचनं बिभाषेति भाष्ये स्थितम् । इदमुक्तं भवति-चक्षिङः ख्याय, इति खुशद्रियमादेशः । शस्य च ? यवचनसिद्ध काण्डे द्रष्टव्यम् । तेन शकारेण व्यवधानात् प्रातिपदिकान्तेति शास्त्रेण वैकल्पिकं मत्वं न । २३-उपसर्गादसमासे पीति णत्वे प्रणश्य तीति साधु। २४-निस्नातोस्मीति साधु । निनदीभ्यां स्नातेः कौशले इतिं कौशले गम्यमाने णत्वं विहितम् । २५–परच्छन्दानुवर्तनमिति तुकि सति साधु । २६–उपसर्गात्सुनोतिसुवतीत्यादिना मूर्धन्ये परिष्टिति रित्येव साधु। २७--हिंसायां प्रतेश्चेति सुटि प्रतिस्किरतीत्येव साधु। परिनिविभ्यः परस्य सुटो मूर्धन्यादेशविधानात् । २८—त्रिहायनेत्येव । साधु। त्रिचतुभ्य’ हायनस्येति णत्वं वयस्येव स्मर्यते । कालकृतशरीरावस्था यौवनादिर्ययःतच्चेइ नास्ति । २९–सुः पूजायामिति कर्मप्रवचनीयत्वे
- उपसर्गनिमित्तं षत्वं न। सुषिक्तमित्यत्र पूजयेंऽसंत्युपसर्गत्वं तदवस्थम् ।
तेन षस्त्रमित्युभयत्रादोषः । ३०–नरवाहन इत्येव समीचीनम्। नरो चाहनमस्येति विग्रहः । तस्मान्नरशब्दोऽनाहितवचनः । तेन वाहन- माहितात् इत्यस्यात्यन्तमप्राप्तिः । पूर्वपदात्संज्ञायमग इत्यनेनापि णत्वं नेष्यते । तुभ्नादित्वात् । एवं श्रीघनः शास्ता मुनिः, स्वर्भानुःचित्रभानुः, इत्यादिषु णत्वाभावः॥ ३१–अहरहरधीते इत्येव साधु । रोऽसुपीति रेफः । ३२-अभिरभगे इति भागेरै उपसर्गत्वमप्रतिषिद्धम्। तेन । उपसर्गप्रादुभ्यमस्तिर्यच्पर इत्यभिध्यादित्येव साधु। ३३–अपरि } निष्ठितस्येत्येव साधु। णत्व विधायक शास्त्रस्यानुपलम्भात् ।३४-हस्मात्तादौ । तद्धिते इति सकारस्य मूर्धन्यादेशे सर्पिष्टरमिति साधु। ३५--पयस्पाश मित्येव साधु । याष्ये प(शप् इति पशप् प्रत्ययो निन्द्याम् । ‘सोऽपदादौ} इति विसर्जनीयस्य सकारः। ३६-विसोढमिति वक्तव्यम् । सोढ इति मूर्धन्यादेशनिषेधात् । ३७--तात्पर्याख्यानीति साधु । मूलगतस्या- साधुत्वे पूर्वत्र ( द्वाविंशे वाक्ये ) हेतुरुक्तः । ३८-नखपदान्तस्य भली त्यनुस्वारे श्रेयांस इति स्यात् । ३९-पुमांस इत्येव साधु। पूर्ववच्छास्त्र