सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६ ]
शब्दापशब्दविवेके

ल्सन्ध्यधिकारो द्वितीयः ।

१–अन्तरङ्गाणि बहिरङ्गएति च भाव्यम् । कुमति चेति णत्वं दुर्वारम् । २–किंवदन्तीत्येव साधु । मोनुस्वार इत्यनुस्वारः । ३--गुणांस्तिरस्कुर्वन्तीति वाच्यम् । नरछव्यप्रशान् इति नस्य रुः । ४–आचार्यानीति साधु। आचार्यादणत्वं चेति वक्तव्याण्णत्वनिषेधः । ५–भिषगादीनामिति चोः कुत्वे कृते साधु । ६–सिषाधयिषसीत्यभ्या सादुत्तरस्य सकारस्य मूर्धन्यादेशे साधु । स्तौतिण्योरेव पुण्यभ्यूसादिति नियमात् । साघेण्णैन्ताचात्र सन् । ७–अन्तरायाणीति लोडुत्तमैकवचने साधु। अन्तः शब्दस्याङ किविधिणत्वेऽप्सगत्वं वाच्यमित्युपसर्गतायाम् आनि लोट् इति णत्वम् ।८-दुर्नय इत्येव साधु । दुरः षत्वणत्वयो- रुपसर्गत्वप्रतिषेधो वक्तव्य इति णत्वनिमित्तमेव नास्ति । ९–प्राज्ञ इति पदमिति विभत्तयलोपेन वक्तव्यम् । १०-विराटादिशब्दानामिति त्रश्चभ्रस्जेति सूत्रेण षत्वे ततो जरत्वे च कृते साधु। ११–नमः कृत्वेति निरवद्यम् । साक्षात्प्रभृतीनि चेति विभाषा गतिसंज्ञा । गतिसंज्ञाऽभावे नमस्पुरसोर्गत्योरिति विसर्गस्य सत्वमपि न । पुरः कृत्येति दुष्टम् । पुरोऽव्ययमिति गतिसंज्ञा। तेन विसर्गस्य सत्वे पुरस्कृत्येत्येव साधु। १२--उपस्तम्भकमिति साधु । मूर्धयादेशे प्रमणविरहात्। १३–नशेः | शान्तस्येति णत्वे निषिद्धे प्रनष्ट इति साधु। १४- इदुदुपधस्य चप्रत्यय स्येति विसर्जनीयस्य षत्वे चतुष्पञ्चाशदिति साधु । १५-मोनुस्वारे प्रियंबद इति साधु। १६-मातृपितृभ्यां स्वसेति षत्वे मातृष्वसेति साधु । १७-अचो रहाभ्यां द्वे इति द्वित्वं बिभाषितम् । तेन द्वित्वाभावपक्षे मूर्धन्तीति ’साधु । १८-भोजनाछदने इत्यत्र प्रदन्ताद्वैति तुग्विकल्पः । तेनादोषः। १९-स्वयंवर इति स्यात् । मो नुस्वार इत्यनुस्वारो दुर्निवारः । २०--अस्मिंश्चेतना इति वक्तव्यम्। नश्छव्यप्रशान् इति नस्य रुः। पूर्वत्रासिद्धमिति स्तोः श्चुना श्चुरित्यसिद्धवद्भवति । २१-परिनिविभ्यः सेवसितसयेत्यादिना सूत्रेण सयशब्दस्य सकारस्य मूर्धन्यो विधीयते न तु