पृष्ठम्:शब्दापशब्दविवेकः.djvu/२१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( १९ )

यजमानः। तेन सत्यपि दानक्रिया निगीर्यते पूजनेनाध्यारोपितेन । ततश्च कारकविपर्ययः सिद्धो भवत्यवाचनिकः । इयद्धि प्राभवत्यं विवक्षायां बुद्धिनिबन्धनायाः । अधिशीङ् स्थासां कर्म (१।४।४६ ), अभिनिविशश्च (१।४।४७)इत्यादिषु विवक्षां हेतूकृत्याधिकरणस्य कर्मसंज्ञाविधानं दृश्यते। विशतेस्तु निरुपसर्गस्योपसर्गान्तरसहचरितस्य च प्रयोग उभयी विवक्षा दृश्यते। मधुनि विशन्ति मधुकराः । ग्रामं प्रविशतीति । जटाधरः सञ्जु हुधीह पावकम् इत्यत्र किराते (१।४४ ) प्यधिकरणे कर्मत्वोपचारः । करणभावश्चापि दृश्यते । अग्निष्टोमेन यजेत स्वर्गकामः। अग्निष्टोमा- ख्येन यागेन स्वर्गं भावयेदित्यर्थः। अग्निष्टोमः स्वर्गभावनायां करणं भवति । यद्यप्यसौ स्वभावनां प्रति साध्यत्वेनेप्सिततमत्वादनुष्ठीयमानः कर्मत्वमनुभवति तथापि तस्य शक्तिभेदात्करणत्वं न विरुध्यते । यथा निपीयमानेन मधुना मत्त इत्यत्र कर्मत्वमनुभवतो मधुनः करणभावो भवति । अत्र व्यवहारे करणे यजः (३।२।८५ ) इति सूत्रं लिङ्गम् । क्वचिद् गृहीत इव केशेषु मृत्युना धर्ममाचरेत् , आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यत इत्यादिषु करणेधिकरणत्वं विवक्षन्ति लौकिकाः। तत्र तेनेदमिति सरूपे (२।२।२७ ) इति तत्र शास्त्रीयं लिङ्गम् । कर्मणोपि कर्तृभावो दृष्ट: । कर्मवत्कर्मणा तुल्यक्रियः (३।१।८७) इत्यत्र तत्प्रतिपत्तेः । क्वचित्कर्मणोऽधिकरणविवक्षा यथा-ऋषिप्रभावान्मयि नान्तकोपि प्रभुः प्रहर्तु' किमुतान्यहिंस्रा इति रघौ (२।६२ ) । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसीति शाकुन्तले । यदा चावयवि प्रहरतेः कर्म भवति तदाऽवयवो धिकरणमिति विवक्ष्यते । इन्द्रजिल्लक्ष्मणमुरसि प्रजहार । अन्यत्रापादाने प्यधिकरणत्वविवक्षा यथा बलाहके विद्योतते विद्युत् । बलाहकस्यापाय- युक्तत्वादपादानसंज्ञा प्राप्नोति । अपादानमुत्तराणीति वार्तिकमत्र लिङ्गम् । क्वचित्सम्प्रदानधियमपोह्याधिकरणमुत्प्रेक्षन्ते कुशलाः प्रयोक्तारः। यद्यथा

न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा ।
सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥

इति कामन्दकः । सममब्राह्मणे दानमिति च मनुः । दरिद्रान्भर