पृष्ठम्:शब्दापशब्दविवेकः.djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १८ )

मत्यामुदपादि भव्येति कुमारे ( १।२२) । सुदक्षिणायां तनयं ययाच इति रघौ । अत्र जनिक्रिया भविष्यन्ती गम्या । माऽऽत्मनः सन्ततिं द्राक्षीत्स्वेषु दारेषु दुखित इति रामायणे भरतशपथेषु । तज्जायाया जायात्वं यस्यां जायते पुनरिति ब्राह्मणकृताऽधिकरणे व्युत्पत्तिरपि रूढिगतायां विवक्षायां लिङ्गम् । कर्त्रादीनि लोके प्रतिनियतविषयाणि न क्वचिदवलोक्यन्ते । अचेतनेष्वपि रथो याति नदी वहतीत्यदिषु कर्त्रभिलापो यतः। सर्वत्र प्राधान्यमगुणाभावो वाऽस्त्येव। विवक्ष्यते हि सः ।

 यथानिरूपणं शब्दप्रयोग इति शाब्दिकाः। विवक्षा हि प्रयोक्तॄणां यथा यथा प्रवर्तते तथा तथा परिवर्तन्ते कारकाणीत्युक्तप्रायमपि पुरस्तादिह पल्लवयामो भूयो वैशद्याय। तद् गच्छति पथिदूतयोः (४।३।८५ ) । अत्र तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते । पन्था हि तत्र मुक्तसंशयमधि करणम् । तथापि तत्र लौकिकी विवक्षा प्रभवति येन सदप्यधिकरणत्वं न विवक्ष्यतेऽसच्च कर्तृत्वं विवक्ष्यते । एवमन्यत्रापि सतोऽविवक्षा दृश्यते । अलोमिकैडकाऽनुदरा कन्येति । अत्र लोमानि न सन्तीति न, उदरमेव वा नास्तीति न । असंभवात् । तथापि तत्सत्ता न विवक्ष्यत इति नञा प्रति षिध्यते । अभिनिष्कामति द्वारम् (४।३।८६ ) । द्वारमभिनिष्क्रमणक्रियायां करणं प्रसिद्धं तदिह स्वातन्त्र्येण विवक्ष्यते । दाणश्च सा चेच्चतुर्थ्यर्थे (१।३।५५) सम्प्रपूर्वाद् दाण आत्मनेपदं भवति यदा तस्य चतुर्थ्यर्थे तृतीयया श्रूयते योगः । कदा च चतुर्थ्यर्थे तृतीयायाः प्रयोगः । यदा सम्प्रदानं साधकतमत्वेन विवक्ष्यते, विवक्षातः कारकाणि भवन्तीति कृत्वा, न पुनः स्वभावतः । विवक्षा च लौकिकी समाश्रीयते न प्रायौगिकी। दिवः कर्म च (१।४।४३) । करणे कर्मविवक्षा करणविवक्षा च । इदम त्राकूतं स्यात्प्रयोक्तुः शिष्टस्य । यो ह्यक्षै र्विजिगीषतेऽक्षानप्यसौ विजि- गीषते । अविजिता अक्षाः कथं देवने जयाय कल्पेरन्निति स तर्कयते । कर्मणः करणसंज्ञा वक्तव्या सम्प्रदानस्य च कर्मसंज्ञा । इदं दानर्थं यजिमधिकृत्य वाक्यकारेणोक्तम्। पशुना रुद्रं यजते । अयं भावः । अत्र पूज़ातात्पर्यकं दानमिति दीयमानेन पशुनाऽभिपूजयामि रुद्रमित्यभिप्रैत्ति