४७४- इदानीमनेन बीरेण तथा पराक्रान्तं यथा न समजेषि निजस्यायुवि।
४७५-पुत्त्रस्य युद्धात्पलायनं निशम्य मनस्विन्या जनन्या हृदये शल्यमिव प्रविध्यत ।
४७६-शर्वेण निबिडेन्धकारे न ददर्श हस्तो हस्तम् ।
४७७-वत्सेऽलं लज्जया । उद्घाट्यावगुण्ठनम् । प्रत्यभिजानातु त्यां भर्ता।
४७८-बलोल्लापान् बहूञ्छावं श्रावं स उत्तमं खेदमापेदे, तदुत्तरे ।
४७९-पूर्वे केपि राजापसदाः प्रज्ञानामुपरि भयानकमत्याचरन्।
४८०-सेयं कौरवी चमूभीष्माध्यक्षतायां परं पराक्रेस्यते किल ।
४८१-पुत्रजन्मनि पितुर्हर्षातिशयः शरीरेषि न मीयते ।
४८२-भगवता सृष्टेष्वतिविस्मयास्पदीभूतेषु वस्तुषु सुतरां प्रभावबद् इदमुदर नाम ।
४८३-पवनः परागवाही रथ्यासु वहन्रजस्वलो भवति ।
४८४–अयमर्थः सर्वजनीनऽ इत्येतदर्थं जिज्ञासा नोदेति ।
४८५–तेषां परिबारे ४ निजाभ्यस्तास्ता भाषाः प्रचरन्ति ।
४८६-सुकृतिनस्ते पूर्णमायुरुपभुज्य पुत्रपौत्त्रादीनां सत्तायां सुखं नाकमारुरुः ।
४८७ --अनेनैव सर्वे स्थालीपुलाकं परीक्षितं स्यात् । नाथं विस्तरेण ।
४८८-लोके शास्त्रे च सूर्यस्याब्जिनीपतिः सहस्रकिरण इत्यादीनि नामधेयान्यधिविन्दामः । तान्युपपादनामहेन्ति ।
४८९-स्पष्टविनिवेदनाय क्षमां चेद् दास्यन्ति सन्तः स्वमभिप्रायममायं वक्ष्यामि ।
४९०–नानाविष्कारगर्विष्टानां राष्ट्राणां संमुखे कतमा वर्तमानमिदं भारतवरकम् ।
१ वृद्, भृशम् । २ क्षुल्लक राजानः । ‘३ सर्वेषां विदितः, सार्व-
- ' लौकिक इयर्थं प्रयोगः। ४ कुटुम्ब इति विवक्षति ।