पृष्ठम्:शब्दापशब्दविवेकः.djvu/१९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( १७ )

 यद्यपि सर्वे नवगण्यां पठिता धातवः स्वार्थे णिचं लभन्ते इति वैयाकरणाः, तथापि पूञ् पवने, ओहाक् त्यागे इति णिच्सहितौ प्राकृ- तेर्थे प्रयोगमवतरतः प्रायेण । पान्नयतेः प्रयोगो यथा-यथा त्वदीयैश्चरितै रनाविलैर्महीधरः पावित एष सान्वय इति कुमारे (५।३७ ) । 'वैतानास्त्वां वह्नयः पावयन्तु’ इति शाकुन्तले (४।७) । अपाङ्क्त्योप्रहता, पङ्क्तिः पाव्यते यैर्द्विजोत्तमैरिति मनौ (३।१८३ ) । हापयतेः खल्वपि -पञ्चैतान्यो महायज्ञान्न हापयति शक्तित इति मनौ (३।७१) । नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् इति च (४।२१ ) । नमस्कारेण मन्त्रेण पञ्च यज्ञान्न हापयेदिति ( याज्ञ० १।१२१) । द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरमिति च माघे ( १६।३३) ।

 यदुद्गिरन्ति प्रामाणिका विवक्षातः कारकाणि भवन्तीति तत्र विमृश्यते केयं विवक्षा नामेति यामनुरुन्धन्ति कारकाणि । वक्तुरिच्छा विवक्षेति चेद्यथा यस्मै रोचेत तथैव स प्रयुञ्जीतेति प्रसङ्गः । नेत्याह । लौकिकी हि विवक्षा प्रभवति न प्रायोक्त्रीति । लोकश्चात्र शिष्टलोक एवाभिप्रेतो वाचि प्रमाणभूतः सर्वस्यावधेयवचनः । अन्यथा सर्वमिदमाकुलं स्याद्वाङ्मयम् । सङ्कीर्येरन्प्रयोगा न व्यवतिष्ठेरन्निति महाननर्थ उपनतः स्यात्। इमां कारकविषयिणीं विवक्षामधिकृत्य किञ्चिद्विन्यस्यामो विदुषां विनोदाय । बीजादङ्करो जायत इत्यत्र बीजं जायमानस्य प्रकृतिरित्यर्थपरिग्रहेण तस्या पादानतां विवक्षामः । बीजमङ्करो जायत इत्यत्र परिणामधर्मपुरस्कारेण भेदा पोहेन प्रकृतित्वतिरस्कारेण च तस्यैव कर्तृतामिति सर्वत्र व्यवहारे बुद्धिरेव प्रभवति । यदाऽविवक्षितभेदं जननव्यापारमभिप्रेमस्तदा मातरपितरौ पुत्रं जनयत इति मातुः पितुश्चोभयोरपि कर्तृत्वम् । यदा कः कथं जनयतीति भेदो विवक्ष्यते तदाऽयं पिताऽस्यां मातरि बीजमाधत्ते पतति वा बीजमस्मा दस्यामिति पितुः कर्तृत्वमपादानत्वं च। पतद्बीजधारणक्रियां कुर्वती माता त्वधिकरणमेव । तथा च शिष्टप्रयोगाः प्रथन्ते ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते ( मनु० १०।८ )। द्विजातयः सवर्णांस्तु जनयन्त्यव्रतांस्तु यान् इति च ( मनु० १०।२०) । सा भूधराणामधिपेन तस्यां समाधि-