सामग्री पर जाएँ

पृष्ठम्:शब्दापशब्दविवेकः.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२ ]
शरदपशब्दविवेके

२७९-अत्र पाठशाले' रूपकाणां विंशतिर्दक्षिण प्रतिमासं मिलति प्रत्येकं छत्रय व्ययाय ।
२८०–चारित्रवताऽऽदर्शज्ञानिना गुरुणा भाव्यम् ।
२८१-इदं चाध्यापकैरध्यायिभिरच समं स्मरणीयमुभयालङ्कारो बोधोपजन इति ।
२८२--तस्य जनसेवाकार्यकलापैः सह विद्यायामपि सविशेषाऽभि रुचिरभूत्।
२८३–अत्रत्यं सर्वं चिकित्सादिकार्यमेकस्य मंहावैद्यस्य संरक्षणं भवति ।
२८४-पुत्रा हि पितरौ बद्दशायां प्रीणयेयुः, उपरतयोस्तयोर्भत्तया श्रद्धया वा न कश्चिदर्थः ।
२८५–हंसकारण्डवादिपदाभिधेयाः के नंम पक्षिण इति केचिद् भाग्यवन्ते एव परिचिताः स्युः ।
२८६-नेदानीं सन्त्युपयुक्ता पन्था इति न सारवद्वचः।
२८७-बद्धनामप्यपराद्धानि सर्वा आबश्यकतः पूरणीया भवन्ति राजभिः।
२८८–कौटलीयार्थशास्त्रप्रभृतीन् प्रन्थान् विलोक्य परं विस्मयन्ते । युरोपीया राजनैतिकः।
२८९-सकृलुप्तप्रचरा भाषा कोषव्याकरणबलेन भूयः प्रवर्तयितुमशक्यम्।
२९०–आसीदयोध्यायां शततोरबमानं नेच्छर्दिलीपसूतू राघववंशप्रवर्तको राजा रघुनाम ।
२९१-यत्सत्यं महाराजो दिलीपो नृपाणां ककुदिति व्यपदेशमर्हति ।
६९२-तत्राभिनये प्राध्यापकाः सूत्रधारस्य पात्रं वहन्ति ।
२९३–प्रायेण पुत्रा पितरावतिव्रतेन्ते, स्वच्छन्दश्चैवानुवर्तन्ते ।
२९४-गोपशिशुभिः सह संगतः खेलति नन्दकिशोरः ।
२९५-पूर्वाः कविकृतीराधायें ३ किमपि प्रणेतुं प्रयतिष्ये ।


• अत्र वैकल्पिकी तत्पुरुषस्य नपुंसकता। २ शनच्छुचिः । ३ आधारी कुल्येति विवक्षति ।