पृष्ठम्:शब्दापशब्दविवेकः.djvu/१६

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( १४ )

चास्य विरलः प्रयोग इति दुर्लभान्युदाहरणानि । . लीङ् श्लेषण इति दिवादिरकर्मकः । आलीयते स्मिन्नित्यालयः । ली श्लेषणे क्रयादिः सकर्मकः। विलिनाति घृतम् । अत्रार्थेऽयं प्रायेण विपूर्वः। पुष्यतिर कर्मकोपि, पुष्णातिस्तु नित्यं सकर्मकः । रैपोषं पुष्णाति । क्लिश उपतापे दिवादिरकर्मकः । तथैव चार्थनिर्देशोभूत् । त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ( मनौ -८।१६६ )। अप्युपदेशग्रहणे नातिक्लिश्यते वः शिष्या (मालविकायाम् ) इत्यत्र चाकर्मकः । श्नाविकरणस्तु सकर्मकः । यथा-क्लिश्नाति लब्धपरिपालनवृत्तिरेवेति शाकुन्तले । एवमाराध्य मानोपि क्लिश्नाति भुवनत्रयमिति च कुमारे ( २।४० ) । क्षुभ संचलन इति भ्वादिषु दिवादिषु क्र्यादिषु च पठितः । सर्वत्राकर्मक एवेत्युक्तार्था- पवादः। रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मन इति रघौ (४।२१) । मन्थादिव क्षुभ्यति गाङ्गमम्भ इत्युत्तरे रामचरिते । प्राक्षुभन् कुलपर्वता इति भट्टौ (१५।२५ ) । नाक्षुभ्नाद्राक्षसो भ्रातुः शक्तिं चोदवृहद् गुरुम् इति च (१७।९० ) क्रमेणोदाहरणानि ।

 गृधिलुभी उभावप्यकर्मकौ। काव्यनाटकादिषु तिङ्तो गृधिर्विरलं प्रयुक्तः, कृदन्तस्तु बहुलम् । गर्धः,गर्धनः,गृघ्नुरित्यादयः कृत्प्रत्ययान्ताः प्रचुरं प्रयुज्यन्ते गृध्यतीत्यादयस्तु क्वचिदेवास्मदादीनामविषय इति मन्त्रदृशां चिरन्तनमुनीनां च प्रयोगा उदाह्रियन्ते । यस्यागृधद्वेदने वाज्यक्षः (ऋ० १०।३४।४) । मा गृधः कस्य स्विद् धनम् (यजुः) इति । अत्रैकं वाक्यमिति मा स्म ते भ्रमो भूत् । मो गृधः, लुब्धो मा भूः । इत्येकं वाक्यम् । धनं कस्य स्वित् इतेि चापरम् । तत्रैव श्रुतेः स्वरसः । स्विदित्यनर्थको निपातः प्रश्नार्थको वा । भारते खल्वपि गृधिरकर्मको दृष्टः। तद्यथा—परवित्तेषु गृध्यतः ( उद्योग० ७२।१८)। तस्य गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः ( भीष्म० ९।७२) । आमिषे गृध्यमानाना- मशुभं वै शुनामिव ( शा० ७।१० ) इति । लुभिरण्यकर्मकत्वे नियत इति मुक्तसंशयमुपलभस्व। असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय इत्यत्र यथा ।