पृष्ठम्:शब्दापशब्दविवेकः.djvu/१५

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( १३ )

कित् ( उणा० ४|४ ) इति सूत्रे नारायणः। चरके खल्वपि पुषिरकर्मको दृष्टः।स्त्रोतांसि रुधिरादीनां वैषम्याद्विषमं गताः। रुद्ध्वा रोगाय कल्पन्ते पुष्यन्ति च न धातवः ॥ इति ( विमान ० ३।२४) । स्रोतसा च यथा स्वेन धातुः पुष्यति धातुत इति च तत्रैव (चिकि० ८।३६ ) । भट्टिरपि पुषिमकर्मकं प्रयुङ्क्ते। तद्यथा अस्त्रीकोऽसावहं स्त्रीमान् । स पुष्यतितरां तव । पतिरित्यब्रवीत् (४।२९)। देह इहापुष्यत्सुरामिषैः ( १७।३२) इति च । अत्र देहमपुष्य इति पाठान्तरम् । तत्र देहं पोषित वानसि । अन्तर्भावितण्यर्थो द्रष्टव्य इति जयमङ्गला।

 दिवादिषु येऽकर्मकास्त एव गणान्तरेऽनूदिताः सकर्मका भवन्ति । प्रीङ् प्रीताविति दिवादिष्वकर्मकः। तथा च कवीनां प्रयोगाः -तत्र सौध गतः पश्यन्यमुनां चक्रवाकिनीम् । हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥ इति रघौ (१५।३०) । येनैवास्मासु प्रीयते भगवान्भुवनगुरुर्भैरवाचार्य इति हर्षचरिते ( पृष्ठे १०२)। प्रकाममप्रीयत यज्वनां प्रिय इति च माघे (१।१७ )। परं प्रीणातीति प्रिय इति क्रैयादिकेन व्युत्पत्तिर्दर्शिता न तु दैवादिकेन। रुष रिष हिंसायां दिवादी अकर्मकौ। तावेव.भ्वादी सकर्मकौ । ‘सा वो रिषत् खनिता यस्मै चाहं खनामि वः' इति (ऋ० १०। ९७|२० ) । अत्र रिषत् इति दिवादिरिषेर्लुङ्। मा रिषत् हिंसां मा स्म प्रापदित्यर्थः । न वा उ एतन्म्रियसे न रिष्यसि इति शुक्लयजुः संहितायाम् ( २३।१६। एवं ह्यायुर्न रिष्यतीति वसिष्ठधर्मसूत्रे (६।१०।।) । रुषिः क्रोधेपि वर्तते । क्रोधो नाम हिंसां प्रयुङ्क्ते । क्रोधमूला हि सा। नाक्रुद्ध्वा हिनस्तीति हिंसार्थः क्रोधार्थं संक्रान्तः। क्रोधार्थोपि रुष्यतिरकर्मकः। ततो ऽरुष्यदनर्दच्चेति भट्टौ (१०।४०)। मा मुहो मा रुषोऽधुनेति च (१५।१६)। तेन यायात्सतां मार्ग' तेन गच्छन्न रिष्यत इति मनुवचने (४।१७८ ) तु भौवादिकस्य रिषेः कर्मणि लटि रूपम् । मीङ् हिंसायामिति दिवादिर कर्मकः । न तस्य लोमापि मीयत इत्युपनिषदि। स्थाणुं वर्छति गर्ते वा पात्यते प्रमीयते वेति च ब्राह्मणे । मीञ् क्रयदिस्तु सकर्मकः । तद्यथा--न मा मिमेथ न जिहीड एषेति ऋग्वर्णे (१०।३४।२) । लौकिके साहित्ये