पृष्ठम्:शब्दापशब्दविवेकः.djvu/१४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( १२ )

कृतान्पथ इति च किराते (४।१८)। आश्वीनानि शतं पतित्वेति च काशिकायाम् (५।२।१९)। यथा गमिः सकर्मकस्तथा पततिरपि । तथैव चोदाहृतम् । ऊर्ध्वगमने तु प्रायेणाकर्मकः । पक्षिणः खे पतन्ति । अपि शक्या गतिर्ज्ञातुं पततां खे पतत्त्रिणाम् इति कौटलीयेर्थशास्त्रे (२।३०)। अधोगमनेर्थेपि प्रायेण तथा। क्षते प्रहारा निपतन्त्यभीक्ष्णम् । ऊर्धगमनेपि पततिः क्वचित्सकर्मको दृष्टः-उत्पपातोदङ्मुखः खमिति मेघदूते । हन्तुं कलहकारोसौ शब्दकारः पपात खम् इतेि च भट्टौ (५।१०० ) । इदं चात्रानुषङ्गिकमुच्यते-अनुपसृष्टोपि पततिरुड्डयनेर्थे बहुलं प्रयुज्यत इत्यभिव्यक्त प्रागुदाहृतेषु। अत एव शत्रन्तः पतच्छब्दः पक्षिपर्यायतां गतः । तथा च किराते (६।१) प्रयोगः-परमः पुमानिव पतिं पतताम् इति।

 वृषु सेचन इति सकर्मकः । कर्मणः प्रसिद्धेस्तु तन्नोच्यत इत्यकमेको भवति । देवो वर्षति । जलमित्यनुक्तमपि गम्यते । अर्थगत्यर्थः शब्द- प्रयोगः । स चेदर्थोऽन्तरेणापि शब्दं गम्यते नासौ प्रयुज्यते । अत एव जलमिति नोपादीयते । जलातिरिक्त कर्म तु न न प्रयुज्यते । पार्थः शरान्वर्षति । क्वचित्तु प्रसिद्धमपि जलादिकं कर्म श्रूयत एव । तद्यथा—तेन नापो यथाकालं देवो वर्षतीति चरके ( विमान० ३।२४ ) ।

 दिवादयोऽकर्मकाः । अल्पा एव तु सकर्मका इति कृतान्तः । तेष्व- ल्पेषु मध्ये पुष पुष्टाविति प्रायेण सकर्मको दृश्यते । तथा च कवीनां प्रयोगाः- सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् इति शाकुन्तले । पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तरा- णीति च कुमारे ( १।२५ ) । वेदे खल्वपि-नार्यमणं पुष्यति नो सखायम् (ऋ० १०।११७।६ ) इति । परमयमपि क्वचिद्कर्मक इत्यत्र पुष्यसिध्यौ नक्षत्रे ( ३।१।११६) इति सूत्र लिङ्गम् । पुष्य इत्यधिकरण- वृत्तिः । पुष्यन्त्यर्था अस्मिन्निति पुष्यो नक्षत्रम् । अन्यत्राप्यकर्मक- वाङ्गीकारेण व्युत्पत्तिर्दृश्यते । पुष्यति जले पुष्करः पद्मम्। पुष्णाति धान्यादिकमिति जलादिकमपि । पुष्यति शब्दोत्र वाद्यमुखं चेति पुषः